सामग्रीं त्यजन्तु

गुरुपादुकास्तोत्रम्

अनन्तसंसार-समुद्रतार-नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यद-पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥१॥

कवित्ववाराशि-निशाकराभ्यां दौर्भाग्य-दावाम्बुद-मालिकाभ्याम् ।
दूरीकृतानम्र-विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥२॥

नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥३॥

नालीकनीकाश-पदाहृताभ्यां नानाविमोहादि-निवारिकाभ्याम् ।
नमज्जनाभीष्ट-ततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥४॥

नृपालिमौलि-व्रजरत्नकांति-सरिद्विराजज्झष-कन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपंक्तेः नमो नमः श्रीगुरुपादुकाभ्याम् ॥५॥

आपदार्ध्रीन्द्रखगेश्वराभ्यां जाड्याब्धिसंशोषणवाडवाभ्याम् ।
श्रुतान्तिहारिद्युतिसुप्रभाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥६॥

राजत्सकल्याणगुणाकराभ्यां निष्कामसौभाग्यनिधिप्रदाभ्याम् ।
समाधिदानव्रतदीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥७॥

स्वामिन्सहायार्थसमायताभ्यां सर्वापदुद्धारकदीक्षिताभ्याम् ।
एतादृशाभीष्टफलप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥८॥

कामादिसर्प-व्रजगारुडाभ्यां विवेकवैराग्य-निधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥९॥