तपोवनषट्कम्¶
॥ तपोवनषटकम् ॥
व्याप्तं जगद्येन चिदात्मभावाद् रज्ज्वा यथाहिर्हि चराचरं यत् संन्यस्य सर्वं च सदात्म-भावे स्वयं समस्तं च बभूव यस्तु ।
निःसंग-निर्मुक्ति-पदं प्रपद्य ब्रह्मात्म-भावेन विराजितो यः श्री सौम्य-काशीश-महेश्वराय तस्मै नमः स्वामितपोवनाय ॥ १ ॥
अखण्ड-भावः शिवरूप-तत्त्वः चिति-स्वभावः परमात्म-सत्यः सत्यस्य सत्यः सुधियैव गम्यः परः प्रधानात् परमेश्वरोयः ।
आद्यन्त-हीनो निरपेक्ष-दीप्तिः स्वतः स्वरूपेण विफुल्लितो यः श्री सौम्य-काशीश-महेश्वराय तस्मै नमः स्वामितपोवनाय ॥ २ ॥
मन्तुन्न शक्यो मनसा कदाचिद् वक्तुं न केनापि तथा न वाचा
बोद्धुं च बुद्ध्यापि तथा न शक्यो बुद्ध्यादि-साक्षी खलु केवलोयः ।
सर्वेन्द्रियातीत-पदस्थितोऽपि सर्वेन्द्रिय-प्रेरयिता परो यः
श्री सौम्य-काशीश-महेश्वराय तस्मै नमः स्वामितपोवनाय ॥ ३ ॥
शुद्धाति-शुद्धं च सदा प्रबुद्धः विश्वेश्वरो विश्वपरः प्रसन्नः व्यापी पर-ब्रह्मणि मोदमानः वेदान्तसारः सुधियां शरण्यः ।
एको वशी सर्व-भूतादिवासः सर्वाधिपः सर्वजीवात्मको यः श्री सौम्य-काशीश-महेश्वराय तस्मै नमः स्वामितपोवनाय ॥ ४ ॥
अशब्दमस्पर्शमरूपवच्च तथारसं नित्यमगन्धवच्च निञ्जनं नित्य-निरीहमेकं बुद्धेः परं निर्गुणसद्ध्रुवं च ।
गुह्यं गभीरम् गगनोपमं यं पश्यन्ति निर्धूत-मला यतीन्द्राः श्री सौम्य-काशीश-महेश्वराय तस्मै नमः स्वामितपोवनाय ॥ ५ ॥
तेजोमयं दिव्यममेय-शक्तिं सनातनं शान्तमनामयं च अद्वैतमाश्चर्यमचिन्त्य-रूपं परात्परं नित्यमनन्तमाद्यम् ।
ज्ञान-प्रकाशेन विशुद्ध-सत्त्वः यं पश्यति स्वात्मनि चिन्त्यमानम् श्री सौम्य-काशीश-महेश्वराय तस्मै नमः स्वामितपोवनाय ॥ ६ ॥