सामग्रीं त्यजन्तु

श्रीविष्णुसहस्रनामस्तोत्रम् — सहस्रनाम

॥ ॐ नमो भगवते वासुदेवाय ॥

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥१॥

१ विश्वम् - जगतः कारणत्वेन विश्वम् इत्युच्यते ब्रह्म । आदौ विश्वमिति कार्यशब्देन कारणग्रहणम् । अथवा विशतीति विश्वं ब्रह्म ।

२ विष्णुः - वेवेष्टि व्याप्नोतीति विष्णुः विषव्याप्त्भिधायिनो नुक्प्रत्ययान्तस्य रूपं विष्णुरिति । देशकालवस्तुपरिच्छेदसून्यः इत्यर्थः ।

३ वष्ट्कारः - यदुद्देशेनाध्वरे वषट् क्रियते स वषट्कारः ।

४ भूतभवयभवत्प्रभुः - भूतं च भव्यं च भवच्च भूतभवयभवन्ति तेषां प्रभुः भूतभवयभवत्प्रभुः

५ भूतकृत् - रजोगुणं समाश्रित्य विरिञ्चिरूपेण भूतानि करोतीति भूतकृत् । तमोगुणमास्थाय स रुद्रात्मना भूतानि कृन्तति कृणोति हिनस्तीति भूतकृत् ।

६ भूतभृत् - सत्त्वगुणमधिष्ठाय भूतानि बिभर्ति पालयति धारयति पोषयतीति वा भूतभृत् ।

७ भावः - प्रपञ्चरूपेण भवतीति केवलं भवतीत्येव वा भावः । भजनं भावः सत्तात्मको वा ।

८ भूतात्मा - भूतानामात्मान्तर्यामीति भूतात्मा ।

९ भूतभावनः - भूतानि भावयति जनयति वर्धयतीति वा भूतभावनः ।

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥२॥

१० पूतात्मा - भूतकृदादिभिर्गुणतन्त्रत्वं प्राप्तं प्रतिषिध्यते पूतात्मा इति , पूत आत्मा यस्य स पूतात्मा, कर्मधारयो वा । गुणोपरागः स्वेच्छातः पुरुषस्येति कल्प्यते ।

११ परमात्मा - परमश्चासावात्मा चेति परमात्मा कार्यकारणविलक्षणो नित्यशुद्धबुद्धमुक्तस्वभावः ।

१२ गतिः - मुक्तानां परमा प्रकृष्टा गतिर्गन्तव्या देवता पुनरावृत्त्यसम्भवात्तद्गतस्येति मुक्तानां परमा गतिः ।

१३ अव्ययः - न व्येति नास्य व्ययो विनाशो विकारो वा विद्यत इति अव्ययः ।

१४ पुरुषः - पुरं शरीरं तस्मिन् शेते पुरुषः । यद्वा अस्तेर्व्यत्यस्ताक्षरयोगाद् आसीत् पुरा पूर्वमेवेति विग्रहं कृत्वा व्युत्पादितः पुरुषः । अथवा पुरुषु भूरिषु उत्कर्षशालिषु सत्त्वेषु सीदतीति पुरूणि फलानि सनोति ददातीति वा, पुरूणि भुवनानि संहारसमये स्यति अन्तं करोतीति वा पूर्णत्वात् पूरणाद्वा सदनाद्वा पुरुषः ।

१५ साक्षी - साक्षादव्यवधानेन स्वरूप बोधेन ईक्षते पश्यति सर्वमिति साक्षी ।

१६ क्षेत्रज्ञः - क्षेत्रं शरीरं जानातीति क्षेत्रज्ञः ।

१७ अक्षरः - स एव न क्षरतीति अक्षरः परमात्मा । अश्नातेरश्नोतेर्वा सरप्रत्ययान्तस्य रूपमक्षर इति ।

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥३॥

१८ योगः - 'ज्ञानेन्द्रियाणि सर्वाणि निरुध्य मनसा सह । एकत्वभावना योगः क्षेत्रज्ञपरमात्मनोः ॥' तदवाप्यतया योगः

१९ योगविदाम् नेता - योगं विदन्ति विचारयन्ति जानन्ति लभन्त इति वा योगविदस्तेषां नेता ज्ञानिनां योगक्षेमवहनादिनेति योगविदां नेता ।

२० प्रधानपुरुषेष्वरः - प्रधानं प्रकृतिर्माया पुरुषो जीवस्तयोरीश्वरः प्रधानपुरुषेश्वरः ।

२१ नारसिंहवपुः - नरस्य सिंहस्य चावयवा यस्मिन् लक्ष्यन्ते तद्वपुर्यस्य स नारसिंहवपुः ।

२२ श्रीमान् - यस्य वक्षसि नित्यं वसति श्रीः स श्रीमान् ।

२३ केशवः - अभ्रूपाः केशा यस्य स केशवः ।

२४ पुरुषोत्तमः - पुरुषाणामुत्तमः पुरुषोत्तमः ।

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥४॥

२५ सर्वः - 'असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् । सर्वस्य सर्वदा ज्ञानात् सर्वमेनं प्रचक्षते ॥' इति भगवद्व्यासवचनात् सर्वः ।

२६ शर्वः - शृणाति संहारसमये संहरति संहारयति सकलाः प्रजाः इति शर्वः ।

२७ शिवः - निस्त्रैगुण्यतया शुद्धत्वात् शिवः । 'स ब्रह्मा स शिवः ' इत्यभेदोपदेशाच्छिवादिनामभिऱरिरेव स्तूयते ।

२८ स्थाणुः - स्थिरत्वात् स्थाणुः ।

२९ भूतादिः - भूतानामादिकारणत्वाद् भूतादिः ।

३० निधिः अव्ययः - प्रलकालेऽस्मिन् सर्वं निधीयत इति निधिः । अव्ययः - अविनश्वरो निधिरित्यर्थः ।

३१ संभवः - स्वेच्छया समीचीनं भवनमस्येति सम्भवः ।

३२ भावनः - सर्वेषां भोक्तॄणां फलानि भावयतीति भावनः । सर्वफलदातृत्वम् इत्यत्र प्रतिपादितम् ।

३३ भर्ता - प्रपञ्चस्याधिष्ठानत्वेन भरणात् भर्ता ।

३४ प्रभवः - प्रकर्षेण महाभूतानि अस्माज्जायन्त इति प्रभवः प्रकृष्टो भवो जन्मास्येति वा ।

३५ प्रभुः - सर्वासु क्रियासु सामर्थ्यतिशयात् प्रभुः ।

३६ ईश्वरः - निरुपाधिकमैश्वर्यमस्येति ईश्वरः ।

स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥५॥

३७ स्वयम्भूः - सर्वेषामुपरि भवति स्वयमेव भवतीति वा स्वयम्भूः ।

३८ शम्भुः - शं सुखं भक्तानां भावयतीति शम्भुः ।

३९ आदित्यः - आदित्यमण्डलान्तःस्थो हिरण्मयः पुरुषः आदित्यः । यथादित्य एक एवानेकेषु जलभाजनेषु अनेकवत् प्रतिभासते एवमनेकेषु शरीरेषु एक एवत्मनेकवत् प्रतिभासत इति आदित्यसाधर्म्याद्वा आदित्यः ।

४० पुष्कराक्षः - पुष्करेणोपमिते अक्षिणी यस्येति पुष्कराक्षः ।

४१ महास्वनः - महानूर्जितः स्वनो नादो वा श्रुतिलक्षणो यस्य स महास्वनः ।

४२ अनादिनिधनः - आदिर्जन्म; निधनं=विनाशः, तद्द्वयं यस्य न विद्यते स अनादिनिधनः ।

४३ धाता - अनन्द्तादिरूपेण विश्वं बिभर्तीति धाता ।

४४ विधाता - कर्मणां तत्फलानां च कर्ता ।

४५ धातुरुत्तमः - अनन्तादीनामपि धारकत्वाद् विशेषेण दधातीति वा धातुरुत्तम इति नामैकं सविशेषणं समानाधिकरण्येन; सर्वधातुभ्यः पृथिव्यादिभ्य उत्कृष्टश्चिद्धातुरित्यर्थः । धातुर्विरिञ्चेरुत्कृष्ट इति वा वैयधिकरण्येन । नामद्वयं वा; कार्यकारणप्रपञ्चधारणाच्चिदेव धातुः । उत्तमः सर्वेषामुद्गतानामतिशयेनोद्गतत्वादुत्तमः ।

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥६॥

४६ अप्रमेयः - प्रमाणादिसाक्षित्वेन प्रकाशस्वरूपस्य प्रमाणाविषयत्वेऽपि प्रकाशस्वरूपस्य प्रमाणाविषयत्वेऽपि अध्यस्तातद्रूपनिवर्तकत्वेन शास्त्रप्रमाणकत्वमिति अप्रमेयः साक्षि रूपत्वाद् वा ।

४७ हृषीकेशः - हृषीकाणीन्द्रियाणि तेषामीशः क्षेत्रज्ञरूपभाक् । यद्वा इन्द्रियाणि यस्य वशे वर्तन्ते स परमात्मा हृषीकेशः यस्य वा सूर्यरूपस्य चन्द्ररूपस्य च जगत्प्रीतिकरा हृष्टाः केशा रस्मयः स हृषीकेशः ।

४८ पद्मनाभः - सर्वजगत्कारणं पद्मं नाभौ यस्य सः ।

४९ अमरप्रभुः - अमराणां प्रभुः ।

५० विश्वकर्मा - विश्वं कर्म क्रिया यस्य सः । (त्वष्ट्रा - इत्यपि पश्यतु )

५१ मनुः - मन्त्रो वा प्रजापतिर्वा मनुः ।

५२ त्वष्टा - क्रियत इति जगत्कर्म विश्वं कर्म यस्येति वा विचित्रनिर्माणशक्तिमत्त्वाद्वा विश्वकर्माः त्वष्ट्रा सादृश्याद्वा । (त्वष्ट्रा इति देवता अपि)

५३ स्थविष्ठः - अतिशयेन स्थूलः स्थविष्ठः ।

५४ स्थविरः ध्रुवः - वयोवचनो वा स्थिरत्वाद् ध्रुवः स्थविरो ध्रुव

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥७॥

५५ अग्राह्यः - कर्मेन्द्रियैर्न गृह्यते इति अग्राह्यः

५६ शास्वतः - शस्वत् सर्वेषु कालेषु भवति इति ।

५७ कृष्णः - 'कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । विष्णुस्तद्भावयोगाच्च कृष्नो भवति शाश्वतः ' इति व्यासवचनात् सcचिदानन्दात्मकः कृष्णः । कॄष्णवर्णात्मकत्वाद्वा कृष्णः ।

५८ लोहिताक्षः - लोहिते अक्षिणी यस्य सः ।

५९ प्रतर्दनः - प्रलये भूतानि प्रतर्दयति हिनस्तीति प्रतर्दनः ।

६० प्रभूतः - ज्ञानैश्वर्यादिगुणैः सम्पन्नः प्रभूतः ।

६१ त्रिककुब्धाम -ऊर्ध्वाधोमध्यभेदेन तिसृणां ककुभामपि धामेति त्रिककुब्धाम इत्येदमिदं नाम ।

६२ पवित्रम् - येन पुनाति यो वा पुनाति ऋषिर्देवता वा तत् ।

६३ मङ्गलं परम् - श्रीविष्णुपुराणवचनात् कल्याणरूपत्वाद्वा मङ्गलम् । परं सर्वभूतेभ्यः उत्कृष्टं ब्रह्म ।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥८॥

६४ ईशानः - सर्वभूतनियन्तृत्वात् ईशानः ।

६५ प्राणदः - प्राणान् ददाति चॆष्टयतीति वा प्राणदः ।

६६ प्राणः - प्राणितीति प्राणः क्षेत्रज्ञः परमात्मा वा । मुख्यप्राणो वा ।

६७ ज्येष्ठः - वृद्धतमो ज्येष्ठः । सर्वकारणत्वाद् वा ज्येष्ठः ।

६८ श्रेष्ठः - प्रशस्यतमः श्रेष्ठः । सर्वातिशयत्वाद् वा श्रेष्ठः ।

६९ प्रजापतिः - ईश्वरत्वेन सर्वासां प्रजानां पतिः प्रजापतिः ।

७० हिरण्यगर्भः - हिरण्मयाण्डान्तर्वर्तित्वात् हिरण्यगर्भो ब्रह्मा विरिञ्चिः तदात्मा ।

७१ भूगर्भः - भूगर्भे यस्य स भूगर्भः ।

७२ माधवः - मायाः श्रियः धवः पतिः माधवः । मधुविविद्यावबोध्यत्वाद्वा माधवः ।

७३ मधुसूदनः - मधुनामानमसुरं सूदितवान् इति मधुसूदनः ।

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥९॥

७४ ईश्वरः - सर्वशक्तिमत्तया ईश्वरः ।

७५ विक्रमी - विक्रमः शौर्यम् , तद्योगात् विक्रमी ।

७६ धन्वी - धनुरस्यास्तीति धन्वी ।

७७ मेधावी - मेधा बहुग्रन्थधारणसामर्थ्यम् , या यस्तास्ति स मेधावी ।

७८ विक्रमः - विचक्रमे जगद् विश्वं तेन विक्रमः विना गरुडेन पक्षिणा क्रमाद्वा ।

७९ क्रमः - क्रमणात्, क्रमहेतुत्वाद् वा क्रमः ।

८० अनुत्तमः - अविद्यमान उत्तमो यस्मात् सः अनुत्तमः ।

८१ दुराधर्षः - दैत्यादिभिर्धर्षयितुं न शक्यत इति दुराधर्षः ।

८२ कृतज्ञः - प्राणिनां पुण्यापुण्यात्मकं कर्म कृतं जानातीति कृतज्ञः । पत्रपुष्पाद्यल्पमपि प्रयच्छतां मोक्षं ददातीति वा ।

८३ कृतिः - पुरुषप्रयत्नः कृतिः , क्रिया वा ; सर्वात्मकत्वात्तदाधारतया वा लक्ष्यते कृत्येति वा कृतिः ।

८४ आत्मवान् - स्वमहिमप्रतिष्ठित्वात् आत्मवान् ।

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥१०॥

८५ सुरेशः - सुराणां देवानामीशः सुरेशः । सूपपदो वा राधातुः शोभनदातॄणामीशः सुरेशः ।

८६ शरणम् - आर्तानामार्तिहरणत्वात् शरणम् ।

८७ शर्म - परमानन्दरूपत्वात् शर्म ।

८८ विश्वरेता - विश्वस्य कारणत्वात् विश्वरेताः ।

८९ प्रजाभवः - सर्वाः प्रजा यत्सकाशादुद्भवन्ति स प्रजाभवः ।

९० अहः - प्रकाशरूपत्वाद् अहः ।

९१ संवत्सरः - कालात्मना स्थितो विष्णुः संवत्सर इत्युक्तः ।

९२ व्यालः - व्यालवद् ग्रहीतुमशक्यत्वाद् व्यालः ।

९३ प्रत्ययः - प्रतीतिः प्रज्ञा प्रत्ययः 'प्रज्ञानं ब्रह्म' इति श्रुतेः ।

९४ सर्वदर्शनः -सर्वाणि दर्शनत्मकानि अक्षीणि यस्य स सर्वदर्शनः सर्वात्मकत्वात् ।

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥११॥

९५ अजः - न जायते इति ।

९६ सर्वेश्वरः - सर्वेषाम् ईश्वराणामीश्वरः ।

९७ सिद्धः - नित्यनिष्पन्नरूपत्वात् सिद्धः ।

९८ सिद्धिः - सर्ववस्तुषु संविद्रूपत्वात्, निरतिशयरूपत्वात् फलरूपत्वाद् वा सिद्धिः ।

९९ सर्वादिः - सर्वभूतानामादिकारणत्वात् ।

१०० अच्युतः - स्वरूपसामर्थ्यान्न च्त्युतो न च्यवते न च्यविष्यते इति अच्युतः

१०१ वृषाकपिः - वर्षणात् सर्वकामानां धर्मो वृषः कात् तोयाद् भूमिमपदिति कपिर्वराहः वृषरूपत्वात्कपिरुपत्वाच्च वृषाकपिः ।

१०२ अमेयात्मा - इयानिति मातुं परिच्छेत्तुं न शक्यत आत्मा यस्येति अमेयात्मा ।

१०३ सर्वयोगिविनिःसृतः - सर्वसम्बन्धविनिर्गतः ।

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥१२॥

१०४ वसुः - वसन्ति सर्वभूतान्यत्र, तेष्वयमपि वसतीति वा वसुः ।

१०५ वसुमनाः - वसुशब्देन धनवाचिना प्राशस्त्यं लक्ष्यते । प्रशस्तं मनो यस्य स वसुमनाः ।

१०६ सत्यः - अवितथरूपत्वात् परमात्मा सत्यः । सत्सु साधुत्वाद्वा सत्यः ।

१०७ समात्मा - सम आत्मा मनो यस्य रागद्वेषादिभिरदूषितः सः समात्मा सर्वभूतेषु सम एक आत्मा वा ।

१०८ सम्मतिः - सर्वैरप्यर्थजातैः परिच्छिन्नः सम्मतिः । सर्वैरपरिच्छिन्नोऽमित इति असम्मितः (एवमपि भवितुमर्हति) ।

१०९ समः - सर्वकालेषु सर्वविकाररहितत्वात् समः, मया लक्ष्म्या सह वर्तत इति वा समः ।

११० अमोघः - पूजितः स्तुतः संस्मृतो वा सर्वफलं ददाति न वृथा करोतीति अमोघः ।

१११ पुण्डरीकाक्षः - हृदयस्थं पुण्डरीकमश्नुते व्याप्नोति तत्रोपलक्षित इति पुण्डरीकाक्षः ।

११२ वृषकर्मा - धर्मलक्षणं कर्मास्येति वृषकर्मा ।

११३ वृषाकृतिः - धर्मार्थमाकृतिः शरीरं यस्येति स वृषाकृतिः ।

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥१३॥

११४ रुद्रः - संहारकाले प्रजाः संहरन् रोदयतीति रुद्रः । रुदं राति ददातीति वा रुर्दुःखं दुःखकारणं वा, द्रावयतीति वा रुद्रः; रोदनाद् द्रावणाद्वापि रुद्र इत्युच्यते ।

११५ बहुशिराः - बहूनि शिरांसि यस्येति बहुशिराः ।

११६ बभ्रुः - बिभर्ति लोकानिति बभ्रुः ।

११७ विश्वयोनिः - विश्वस्य कारणत्वाद् विश्वयोनिः ।

११८ शुचिश्रवाः - शुचीनि श्रवांसि नामानि श्रवणीयान्यस्येति शुचिश्रवाः ।

११९ अमृतः - न विद्यते मृतं मरणमस्येति अमृतः ।

१२० शाश्वतस्थाणुः - शाश्वतश्चासौ स्थाणुश्चेति शाश्वतस्थाणुः ।

१२१ वरारोहः - वर आरोहोऽङ्कोऽस्येति वरारोहः । वरमारोहणं यस्मिन्निति वा, आरूढानां पुनरावृत्त्यसम्भवात् ।

१२२ महातपाः - महत्सृज्यविषयं तपो ज्ञानमस्येति महातपाः ।

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥१४॥

१२३ सर्वगः - सर्वत्र गच्छतीति सर्वगः ।

१२४ सर्वविद्भानुः - सर्वं वेत्ति विन्दतीति वा सर्ववित् भातीति भानुः । सर्वविच्चासौ भानुश्चेति ।

१२५ विष्वक्सेनः - विष्वग् अव्ययं सर्वेत्यर्थे । विष्वगञ्चति पलायते दैत्यसेना यस्य रणोद्योगमात्रेणेति विष्वक्सेनः ।

१२६ जनार्दनः - जनान् दुर्जनानर्दयति हिनस्ति नरकादीन् गमयतीति वा जनार्दनः जनैः पुरुषार्थमभ्युदयनिःश्रेयसलक्षणं याच्यते इति जनार्दनः ।

१२७ वेदः - वेदरूपत्वाद् वेदः वेदयतीति वा वेदः ।

१२८ वेदवित् - यथावद्वेदं वेदार्थं च वेत्तीति वेदवित् ।

१२९ अव्यङ्गः - अव्यङ्गः ज्ञानादिभिः परिपूर्णोऽविकल इत्युच्यते; व्यङ्गो व्यक्तिर्न विद्यत इत्यव्यङ्गो वा ।

१३० वेदाङ्गः - वेदा अङ्गभूता यस्य स वेदाङ्गः ।

१३१ वेदवित् - वेदान् विन्ते विचारयतीति वेदवित् ।

१३२ कविः - क्रान्तदर्शी कविः सर्वदृक् ।

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥१५॥

१३३ लोकाध्यक्षः - लोकानध्यक्षयतीति लोकाध्यक्षः । सर्वेषां लोकानां प्राध्यान्येनोपद्रष्टा ।

१३४ सुराध्यक्षः - लोकपालादिसुराणामध्यक्षः सुराध्यक्षः ।

१३५ धर्माध्यक्षः - धर्माधर्मौ साक्षादीक्षतेऽनुरूपं फलं दातुं तस्माद् धर्माध्यक्षः ।

१३६ कृताकृतः - कृतश्च कार्यरूपेण अकृतश्च कारणरूपेणेति कृताकृतः ।

१३७ चतुरात्मा - सर्गादिषु पृथग्विभूतयश्चतस्रः आत्मानो मूर्तयो यस्य सः चतुरात्मा ।

१३८ चतुर्व्यूहः - 'व्यूहात्मानं चतुर्धा वै वासुदेवादिमूर्तिभिः' इति व्यासवचनात् चतुर्व्यूहः ।

१३९ चतुर्दंष्ट्रः - दंष्ट्राश्चतस्रो यस्येति चतुर्दंष्ट्रः नृसिंहविग्रहः । यद्वा सादृश्याच्छृङ्गं दंष्ट्रेत्युच्यते 'चत्वारि शृङ्गाः' (ऋग्वेदे) इति श्रुतेः ।

१४० चतुर्भुजः - चत्वारो भुजा अस्येति चतुर्भुजः ।

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥१६॥

१४१ भ्राजिष्णुः - प्रकाशैकरसकत्वाद् भ्राजिष्णुः ।

१४२ भोजनम् - भोज्यरूपतया प्रकृतिर्माया भोजनम् इत्युच्यते ।

१४३ भोक्ता - पुरुषरूपेण तां भुङ्ते इति भोक्ता ।

१४४ सहिष्णुः - हिरण्याक्षादीन् सहते अभिभ​वतीति सहिष्णुः ।

१४५ जगदादिजः - हिरण्यगर्भरूपेण जगदादावुत्पद्यते स्वयमिति जगदादिजः ।

१४६ अनघः - अघः न विद्यतेऽस्येति अनघः 'अपहतपाप्मा' (छा० उ०) इति श्रुतेः ।

१४७ विजयः - विजयते ज्ञानवैराग्यैश्वर्यादिभिर्गुणैर्विश्वमिति विजयः ।

१४८ जेता - यतो जयत्यतिशेते सर्वभूतानि स्वभावतोऽतो जेता ।

१४९ विश्वयोनिः - विश्वं योनिर्यस्य विश्वश्चासौ योनिश्चेति वा विश्वयोनिः ।

१५० पुनर्वसुः - पुनः पुनः शरीरेषु वसति क्षेत्रज्ञरूपेणेति पुनर्वसुः ।

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥१७॥

१५१ उपेन्द्रः - इन्द्रमुपगतोऽनुजत्वेनेति उपेन्द्रः । यद्वा उपरि इन्द्रः ।

१५२ वामनः - बलिं वामनरूपेण याचितवानिति वामनः । सम्भजनीय इति वा वामनः ।

१५३ प्रांशुः - स एव जगत्त्रयं क्रममाणः प्रांशुरभूदिति प्रांशुः । [हरिवंशे वर्णनम्]

१५४ अमोघः - न मोघं चेष्टितं यस्य स अमोघः ।

१५५ शुचिः - स्मरतां स्तुवतामर्चयतां च पावनत्वात् शुचिः । 'अस्य स्पर्शश्च महान् शुचिः' इति मन्त्रवर्णात् ।

१५६ ऊर्जितः - बलप्रकर्षशालित्वाद् ऊर्जितः ।

१५७ अतीन्द्रः - अतीत्येन्द्रं स्थितो ज्ञानैश्वर्यादिभिः स्वभावसिद्धैरिति अतीन्द्रः ।

१५८ संग्रहः - सर्वेषां प्रतिसंहारात् सङ्ग्रहः ।

१५९ सर्गः - सृज्यरूपतया, सर्गहेतुत्वाद् वा सर्गः ।

१६० धृतात्मा - एकरूपेण जन्मादिरहिततया धृत आत्मा येन स धृतात्मा ।

१६१ नियमः - स्वेषु स्वेष्वधिकारेषु प्रजा नियमयतीति नियमः ।

१६२ यमः - अन्तर्यच्छतीति यमः ।

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥१८॥

१६३ वेद्यः - निश्रेयसार्थिभिर्वेदनार्हत्वाद् वेद्यः ।

१६४ वैद्यः - सर्वविद्यानां वेदितृत्वाद् वैद्यः ।

१६५ सदायोगी - सदा आविर्भूतस्वरूपत्वात् सदायोगी ।

१६६ वीरहन् - धर्मत्राणाय वीरान् असुरान् हन्तीति वीरहा ।

१६७ माधव - माया विद्यायाः पतिः माधवः ।

१६८ मधुः - यथा मधु परां प्रीतिमुत्पादयति अयमपि तथेति मधुः ।

१६९ अतीन्द्रियः - शब्दादिरहितत्वादिन्द्रियाणामविषय इति अतीन्द्रियः ।

१७० महामायः - मायां विनापि मायाकारित्वात् महामायः ।

१७१ महोत्साहः - जगदुत्पत्तिस्थितिलयार्थमुद्युक्तत्वात् महोत्साहः ।

१७२ महाबलः - बलिनामपि बलवत्त्वात् महाबलः ।

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥१९॥

१७३ महाबुद्धिः - बुद्धिमतामपि बुद्धिमत्त्वात् महाबुद्धिः ।

१७४ महावीर्यः - महदुत्पत्तिकारणमविद्यालक्षणं वीर्यमस्येति महावीर्यः ।

१७५ महाशक्तिः - महती शक्तिः सामर्थ्यमस्येति महाशक्तिः ।

१७६ महाद्युतिः - महती द्युतिर्बाह्याभ्यन्तरा च अस्येति महाद्युतिः ।

१७७ अनिर्देश्यवपुः - इदं तदिति निर्देष्टुं यन्न शक्यते परस्मै स्वसंवेद्यत्वात्तदनिर्देश्यं वपुरस्येति अनिर्देश्यवपुः ।

१७८ श्रीमान् - ऐश्वर्यलक्षणा समग्रा श्रीर्यस्य सः श्रीमान् ।

१७९ अमेयात्मा - सर्वैः प्राणिभिरमेया बुद्धिरात्मा यस्य सः अमेयात्मा ।

१८० महाद्रिधृक् - महान्तमद्रिं गिरिं मन्दरं गोवर्धनं च अमृतमन्थने गोरक्षणे च धृतवानिति महाद्रिधृक् ।

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥२०॥

१८१ महेष्वासः - महानिष्वास इषुक्षेपो यस्य स महेष्वासः ।

१८२ महीभर्ता - एकार्णवाप्लुतां देवीं महीं च बभारेति महीभर्ता ।

१८३ श्रीनिवासः - यस्य वक्षस्यनपायिनी श्रीर्वसति सः श्रीनिवासः ।

१८४ सतां गतिः - सतां वैदिकानां साधूनां पुरुषार्थसाधनहेतुः सतां गतिः ।

१८५ अनिरुद्धः - न केनापि प्रादुर्भावेषु निरुद्ध इति अनिरुद्धः ।

१८६ सुरानन्दः - सुरानानन्दयतीति सुरानन्दः ।

१८७ गोविन्दः - 'नष्टां वै धरणीं पूर्वमविन्दद्यद्गुहागताम् गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः महा० शान्ति० ३४२ । ७०) इति मोक्षधर्मवचनात् गोविन्दः ।

१८८ गोविदां पतिः - गौर्वाणी तां विन्दतीति गोविदः तेषां पतिर्विशेषेणेति गोविदां पतिः ।

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥२१॥

१८९ मरीचिः - तेजस्विनामपि तेजस्त्वात् मरीचिः ।

१९० दमनः - स्वाधिकारात्प्रमाद्यतीः प्रजा दमयितुं शीलमस्य वैवस्वतादिरूपेणेति दमनः ।

१९१ हंसः - अहं स इति तादात्म्यभाविनः संसारभयं हन्तीति हंसः। हन्ति गच्छति सर्वशरीरेष्विति वा हंसः ।

१९२ सुपर्णः - शोभनधर्माधर्मरूपपर्णत्वात् सुपर्णः, 'द्वा सुपर्णा' (मु० उ० ३।१) इति मन्त्रवर्णात्। शोभनं पर्णं यस्येति वा सुपर्णः 'सुपर्णः पततामस्मि' इति ईश्वरवचनात् ।

१९३ भुजगोत्तमः - भुजेन गच्छतामुत्तमो भुजगोत्तमः ।

१९४ हिरण्यनाभः - हिरण्यमिव कल्याणी नाभिरस्येति हिरण्यनाभः हितरमणीयनाभित्वाद्वा हिरण्यनाभः ।

१९५ सुतपाः - वदरिकाश्रमे नरनारायणरूपेण शोभनं तपश्चरतीति सुतपाः ।

१९६ पद्मनाभः - पद्ममिव सुवर्तुला नाभिरस्येति, हृदयपद्मस्य नाभौ मध्ये प्रकाशनाद्वा पद्मनाभः पृषोदरादित्वात्साधुत्वम् ।

१९७ प्रजापतिः - प्रजानां पतिः पिता प्रजापतिः ।

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान्स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥२२॥

११८ अमृत्युः - मृत्युर्विनाशस्तद्धेतुर्वास्य न विद्यते ।

१९९ सर्वदृक् - प्राणिनां कृताकृतं सर्वं पश्यति स्वाभाविकेन बोधेनेति सर्वदृक् ।

२०० सिंहः - हिनस्तीति सिंहः । पृषोदरादित्वात् साधुत्वम् ।

२०१ सन्धाता - कर्मफलैः पुरुषान् सन्धत्त इति सन्धाता ।

२०२ सन्धिमान् - फलभोक्ता च स एवेति सन्धिमान् ।

२०३ स्थिरः - सदैकरूपत्वात् स्थिरः ।

२०४ अजः - अजति गच्छति क्षिपति इति वा अजः ।

२०५ दुर्मर्षणः - मर्षितुं सोढुं दानवादिभिर्न शक्यते इति दुर्मर्षणः ।

२०६ शास्ता - श्रुतिस्मृत्यादिभिः सर्वेषामनुशिष्टिं करोतीति शास्ता ।

२०७ विश्रुतात्मा - विशेषेण श्रुतो येन सत्यज्ञानादिलक्षणः आत्मातो विश्रुतात्मा ।

२०८ सुरारिहा - सुरारीणां निहन्तृत्वात् सुरारिहा ।

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥२३॥

२०९ गुरुः - सर्वविद्यानामुपदेष्टृत्वात्सर्वेषां जनकत्वाद्वा गुरुः ।

२१० गुरुतमः - विरिञ्च्यादीनामपि ब्रह्मविद्यासम्प्रदायकत्वाद् गुरुतमः ।

२११ धाम - धाम ज्योतिः 'नारायणपरो ज्योतिः' (ना० उ० १३।१) इति मन्त्रवर्णात् । सर्वकामानामास्पदत्वाद्वा धाम ।

२१२ सत्यः - सत्यवचनधर्मरूपत्वात् सत्यः, सत्यस्य सत्यमिति वा ।

२१३ सत्यपराक्रमः - सत्यः अवितथः पराक्रमो यस्य सः सत्यपराक्रमः ।

२१४ निमिषः - निमीलिते यतो नेत्रे योग- निद्रारतस्य अतो निमिषः ।

२१५ अनिमिषः - नित्यप्रबुद्धस्वरूपत्वात् अनिमिषः; मत्स्यरूपतया वा आत्मरूपतया वा अनिमिषः ।

२१६ स्रग्वी - भूततन्मात्ररूपां वैजयन्त्याख्यां स्वजं नित्यं बिभर्तीति स्रग्वी ।

२१७ वाचस्पतिरुदारधीः - वाचो विद्यायाः पतिः वाचस्पतिः; सर्वार्थविषया धीर्बुद्धि- रस्येत्युदारधीः वाचस्पतिरुदारधीः इत्येकं

नाम ।

अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥२४॥

२१८ अग्रणीः - अग्रं प्रकृष्टं पदं नयति मुमुक्षूनिति अग्रणीः ।

२१९ ग्रामणीः - भूतग्रामस्य नेतृत्वाद् ग्रामणीः ।

२२० श्रीमान् - श्रीः कान्तिः सर्वातिशायिन्यस्येति श्रीमान् ।

२२१ न्यायः - प्रमाणानुग्राहकोऽभेदकारकस्तर्को न्यायः ।

२२२ नेता - जगद्यन्त्रनिर्वाहको नेता ।

२२३ समीरणः - श्वसनरूपेण भूतानि चेष्टयतीति समीरणः ।

२२४ सहस्रमूर्धा - सहस्राणि मूर्धानोऽस्येति सहस्रमूर्धा ।

२२५ विश्वात्मा - विश्वस्यात्मा विश्वात्मा ।

२२६ सहस्राक्षः - सहस्त्राण्यक्षीण्यक्षाणि वा यस्य स सहस्राक्षः ।

२२७ सहस्रपात् - सहस्राणि पादा अस्येति सहस्रपात् ।

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥२५॥

२२८ आवर्तनः - आवर्तयितुं संसारचक्रं शीलमस्येति आवर्तनः ।

२२९ निवृत्तात्मा - संसारबन्धानिवृत्त आत्मास्वरूपमस्येति निवृत्तात्मा ।

२३० संवृतः - आच्छादिकया अविद्यया संवृतत्वात् संवृतः ।

२३१ सम्प्रमर्दनः - सम्यक् प्रमर्दयतीति रुद्रकालाद्याभिर्विभूतिभिरिति सम्प्रमर्दनः ।

२३२ अहः संवर्तकः - सम्यगह्नां प्रवर्तनात् सूर्यः अहः संवर्तकः ।

२३३ वह्निः - हविर्वहनात् वह्निः ।

२३४ अनिलः - अनिलयः अनिलः, अनादित्वाद् अनिलः अनादानाद्वा, अननाद्वा अनिलः ।

२३५ धरणीधरः - शेषदिग्गजादिरूपेण वराहरूपेण च धरणीं धत्त इति धरणीधरः ।

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥२६॥

२३६ सुप्रसादः - शोभनः प्रसादो यस्यापकारवतामपि शिशुपालादीनां मोक्षप्रदातृत्वादिति सुप्रसादः ।

२३७ प्रसन्नात्मा - रजस्तमोभ्यामकलुषित आत्मान्तःकरणमस्येति प्रसन्नात्मा । करुणार्द्रस्वभावत्वाद्वा यद्वा प्रसन्नस्वभावः कारुणिक इत्यर्थः अवाप्तसर्वकामत्वाद्वा ।

२३८ विश्वधृक् - विश्वं धृष्णोतीति विश्वधृक् । ञिधृषा प्रागल्भ्ये ।

२३९ विश्वभुक् - विश्वं भुङ्क्ते भुनक्ति पालयतीति वा विश्वभुक् ।

२४० विभुः - हिरण्यगर्भादिरूपेण विविधं भवतीति विभुः ।

२४१ सत्कर्ता - सत्करोति पूजयतीति सत्कर्ता ।

२४२ सत्कृतः - पूजितैरपि पूजितः सत्कृतः ।

२४३ साधुः - न्यायप्रवृत्ततया साधुः; साधयतीति वा साध्यभेदान्, उपादानात् साध्यमात्रसाधको वा ।

२४४ जहनुः - जनान् संहारसमये अपनयतीति जह्रुः जहात्यविदुषो भक्तान्नयति परम्पदमिति वा ।

२४५ नारायणः - नर आत्मा, ततो जातान्याकाशादीनि नाराणि कार्याणि तानि अयं कारणात्मना व्याप्नोति, अतश्च तान्ययनमस्येति नारायणः । नाराणां जीवानामयनत्वात्प्रलय इति वा नारायणः ।

२४६ नरः - 'नयतीति नरः प्रोक्तः परमात्मा सनातनः' इति व्यासवचनम् ।

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥२७॥

२४७ असंख्येयः - यस्मिन् संख्या नामरूपभेदादिः न विद्यत इति असंख्येयः ।

२४८ अप्रमेयात्मा - अप्रमेय आत्मा स्वरूपमस्येति अप्रमेयात्मा ।

२४९ विशिष्टः - अतिशेते सर्वमतो विशिष्टः ।

२५० शिष्टकृत् - शिष्टं शासनं तत् करोतीति शिष्टकृत्; शिष्टान् करोति पालयतीति वा । सामान्यवचनो धातुर्विशेषवचनो दृष्टः कुरु काष्ठानीत्याहरणे यथा, तद्वदिति वा शिष्टकृत् ।

२५१ शुचिः - निरञ्जनः शुचिः ।

२५२ सिद्धार्थः - सिद्धो निर्वृत्तः अर्थ्यमानोऽर्थोऽस्येति सिद्धार्थः ।

२५३ सिद्धसङ्कल्पः - सिद्धो निष्पन्नः सङ्कल्पोऽस्येति सिद्धसङ्कल्पः ।

२५४ सिद्धिदः - सिद्धिं फलं कर्तृभ्यः स्वाधिकारानुरूपतो ददातीति सिद्धिदः ।

२५५ सिद्धिसाधनः - सिद्धेः क्रियायाः साधकत्वात् सिद्धिसाधनः ।

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥२८॥

२५६ वृषाही - वृषो धर्मः पुण्यम्, तदेवाहः प्रकाशसाधर्म्यात्, द्वादशाहप्रभृतिर्वृषाहः; सोऽस्यास्तीति वृषाही । वृषाह इत्यत्र 'राजाहः सखिभ्यष्टच्' इति टच् प्रत्ययः समासान्तः।

२५७ वृषभः - वर्षत्येष भक्तेभ्यः कामानिति वृषभः ।

२५८ विष्णुः - विष्णुः 'विष्णुर्विक्रमणात्' (महा०) इति व्यासोक्तेः ।

२५९ वृषपर्वा - वृषरूपाणि सोपानपर्वाण्याहुः परं धामारुरुक्षोरित्यतो वृषपर्वा ।

२६० वृषोदरः - प्रजा वर्षतीव उदरमस्येति वृषोदरः ।

२६१ वर्धनः - वर्धयतीति वर्धनः ।

२६२ वर्धमानः - प्रपञ्चरूपेण वर्धत इति वर्धमानः ।

२६३ विविक्तः - इत्थं वर्धमानोऽपि पृथगेव तिष्ठतीति विविक्तः ।

२६४ श्रुतिसागरः - श्रुतयः सागर इवात्र निधीयन्ते इति श्रुतिसागरः ।

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥२९॥

२६५ सुभुजः - शोभना भुजा जगद्रक्षाकरा अस्येति सुभुजः ।

२६६ दुर्धरः - पृथिव्यादीन्यपि लोकधारकाण्यन्यैर्धारयितुमशक्यानि धारयन् न केनचिद् धारयितुं शक्य इति दुर्धरः । दुःखेन ध्यानसमये मुमुक्षुभिर्हृदये धारयत इति वा दुर्धरः ।

२६७ वाग्मी - यतो निःसृता ब्रह्ममयी वाक् तस्माद् वाग्मी ।

२६८ महेन्द्रः - महांश्चासाविन्द्रश्चेति महेन्द्रः ईश्वराणामपीश्वरः ।

२६९ वसुदः - वसु धनं ददातीति वसुदः ।

२७० वसुः - दीयमानं तद् वस्वपि स एवेति वा वसुः आच्छादयत्यात्मस्वरूपं माययेति वा वसुः, अन्तरिक्ष एव वसति नान्यत्रेति असाधारणेन वसनेन वायुर्वा वसुः ।

२७१ नैकरूपः - एकं रूपमस्य न विद्यत इति नैकरूपः ।

२७२ बृहद्रूपः - बृहन्महद् वराहादिरूपमस्येति बृहद्रूपः ।

२७३ शिपिविष्टः - शिपयः पशवः, तेषु विशति प्रतितिष्ठति यज्ञरूपेणेति शिपिविष्टः । शिपयो रश्मयस्तेषु निविष्ट इति वा ।

२७४ प्रकाशनः - सर्वेषां प्रकाशनशीलत्वात् प्रकाशनः ।

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥३०॥

२७५ ओजस्तेजोद्युतिधरः - ओजः प्राणबलम्; तेजः शौर्यादयो गुणाः, द्युतिर्दीप्तिः, ताः धारयतीति ओजस्तेजोद्युतिधरः । अथवा, ओजस्तेज इति नामद्वयम्, 'बलं बलवतां चाहम्' ‘तेजस्तेजस्विनामहम्' इति भगवद्वचनात् । द्युतिं ज्ञानलक्षणां दीप्तिं धारयतीति द्युतिधरः ।

२७६ प्रकाशात्मा - प्रकाशस्वरूप आत्मा यस्य स प्रकाशात्मा ।

२७७ प्रतापनः - सवित्रादिविभूतिभिः विश्वं प्रतापयतीति प्रतापनः ।

२७८ ऋद्धः - धर्मज्ञानवैराग्यादिभिरुपेतत्वाद् ऋद्धः ।

२७९ स्पष्टाक्षरः - स्पष्टमुदात्तम् ओङ्कारलक्षणमक्षरमस्येति स्पष्टाक्षरः ।

२८० मन्त्रः - ऋग्यजुः सामलक्षणो मन्त्रबोध्यत्वाद् वा मन्त्रः ।

२८१ चन्द्रांशुः - संसारतापतिग्मांशुतापतापितचन्द्रांशुरिवाह्लादकरत्वात् चेतसां चन्द्रांशुः

२८२ भास्करद्युतिः - भास्करद्युतिसाधर्म्याद् भास्करद्युतिः ।

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥३१॥

२८३ अमृतांशूद्भवः - मध्यमाने पयोनिधावमृतांशोश्चन्द्रस्य उद्भवो यस्मात्सःअमृतांशूद्भवः ।

२८४ भानुः - भाति इति भानुः ।

२८५ शशबिन्दुः - शशबिन्दुश्चन्द्रः तद्वत् प्रजाः पुष्णातीति शशबिन्दुः ।

२८६ सुरेश्वरः - सुराणां देवानां शोभनदातृणां चेश्वरः सुरेश्वरः ।

२८७ औषधम् - संसाररोगभेषजत्वाद् औषधम् ।

२८८ जगतः सेतुः - जगतां समुत्तारणहेतुत्वादसम्भेदकारणत्वाद् वा सेतुवद्वर्णाश्रमादीनां जगतः सेतुः ।

२८९ सत्यधर्मपराक्रमः - सत्या अवितथा धर्मा ज्ञानादयो गुणाः पराक्रमश्च यस्य सः सत्यधर्मपराक्रमः ।

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥३२॥

२९० भूतभव्यभवन्नाथः - भूतभव्यभवतां भूतग्रामाणां नाथः तैर्याच्यते तानुपतपति तेषामीष्टे शास्तीति वा भूतभव्यभवन्नाथः ।

२९१ पवनः - पवत इति पवनः ।

२९२ पावनः - पावयतीति पावनः ।

२९३ अनलः - अनान् प्राणान् आत्मत्वेन लातीति जीवः अनलः, नञ्पूर्वाद् वा 'अगन्धमरसम्' इति श्रुतेः; न अलं पर्याप्तमस्य विद्यत इति वानलः ।

२९४ कामहा - कामान् हन्ति मुमुक्षूणां भक्तानां हिंसकानां चेति कामहा ।

२९५ कामकृत् - सात्त्विकानां कामान् करोतीति कामकृत् । कामः प्रद्युम्नः तस्य जनकत्वाद् वा ।

२९६ कान्तः - अभिरूपतमः कान्तः ।

२९७ कामः - काम्यते पुरुषार्थाभिकाङ्क्षिभिरिति कामः ।

२९८ कामप्रदः - भक्तेभ्यः कामान् प्रकर्षेण ददातीति कामप्रदः ।

२९९ प्रभुः - प्रकर्षेण भवनात् प्रभुः ।

युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ॥३३॥

३०० युगादिकृत् - युगादेः कालभेदस्य कर्तृत्वाद् युगादिकृत् । युगानामादिमारम्भं करोतीति वा ।

३०१ युगावर्तः - युगानि कृतादीन्यावर्तयति कालात्मनेति युगावर्तः ।

३०२ नैकमायः - एका माया न विद्यते बह्वीर्माया वहतीति नैकमायः । 'नलोपो नञः' (६।३।७३) इति नकारलोपो न भवति, ञकारानुबन्धरहितस्यापि प्रतिषेधवाचिनो नकारस्य विद्यमानत्वात् ।

३०३ महाशनः - महदशनमस्येति महाशनः । कल्पान्ते सर्वग्रसनात् ।

३०४ अदृश्यः - सर्वेषां बुद्धीन्द्रियाणामगम्यः अदृश्यः ।

३०५ व्यक्तरूपः - स्थूलरूपेण व्यक्तं स्वरूपमस्येति व्यक्तरूपः, स्वयंप्रकाशमानत्वाद् योगिनां व्यक्तरूप इति वा ।

३०६ सहस्रजित् - सुरारीणां सहस्राणि युद्धे जयतीति सहस्रजित् ।

३०७ अनन्तजित् - सर्वाणि भूतानि युद्धक्रीडादिषु सर्वत्राचिन्त्यशक्तितया अनन्तजित् ।

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥३४॥

३०८ इष्टः - परमानन्दात्मकत्वेन प्रिय इष्टः, यज्ञेन पूजित इति वा इष्टः ।

३०९ अविशिष्टः - सर्वेषामन्तर्यामित्वेन अविशिष्टः ।

३१० शिष्टेष्टः - शिष्टानां विदुषामिष्टः शिष्टेष्टः शिष्टा इष्टा अस्येति वा, शिष्टैरिष्टः पूजित इति वा शिष्टेष्टः ।

३११ शिखण्डी - शिखण्डः कलापोऽलङ्कारोऽस्येति शिखण्डी यतो गोपवेषधरः ।

३१२ नहुषः - नह्यति भूतानि माययातो नहुषः, णह् बन्धने ।

३१३ वृषः - कामानां वर्षणाद् वृषः धर्मः ।

३१४ क्रोधहा - साधूनां क्रोधं हन्तीति क्रोधहा ।

३१५ क्रोधकृत्कर्ता - असाधुषु क्रोधं करोतीति क्रोधकृत् । क्रियत इति कर्म जगत्तस्य कर्ता । क्रोधकृतां दैत्यादीनां कर्ता छेदक इत्येकं वा नाम ।

३१६ विश्वबाहुः - विश्वेषामालम्बनत्वेन विश्वे बाहवोऽस्येति विश्वतो बाहवोऽस्येति वा ।

३१७ महीधरः - महीं पूजां धरणीं वा धरतीति महीधरः ।

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥३५॥

३१८ अच्युतः - षड्भावविकाररहितत्वाद् अच्युतः ।

३१९ प्रथितः - जगदुत्पत्त्यादिकर्मभिः प्रख्यातः प्रथितः ।

३२० प्राणः - सूत्रात्मना प्रजाः प्राणयतीति प्राणः ।

३२१ प्राणदः - सुराणामसुराणां च प्राणं बलं ददाति द्यति वेति प्राणदः ।

३२२ वासवानुजः - अदित्यां कश्यपाद् वासवस्यानुजो जात इति वासवानुजः ।

३२३ अपां निधिः - आपो यत्र निधीयन्ते सः अपां निधिः ।

३२४ अधिष्ठानम् - अधितिष्ठन्ति भूतानि उपादान- कारणत्वेन ब्रह्मेति अधिष्ठानम् ।

३२५ अप्रमत्तः - अधिकारिभ्यः कर्मानुरूपं फलं प्रयच्छन्न प्रमाद्यतीति अप्रमत्तः ।

३२६ प्रतिष्ठितः - स्वे महिनि स्थितः प्रतिष्ठितः ।

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥३६॥

३२७ स्कन्दः - स्कन्दत्यमृतरूपेण गच्छति वायुरूपेण शोषयतीति वा स्कन्दः ।

३२८ स्कन्दधरः - स्कन्दं धर्मपथं धारयतीति स्कन्दधरः ।

३२९ धुर्यः - धुरं वहति समस्तभूतजन्मादिलक्षणामिति धुर्यः ।

३३० वरदः - अभिमतान्वरान्ददातीति, वरं गां दक्षिणां ददाति यजमानरूपेणेति वा वरदः ।

३३१ वायुवाहनः - मरुतः सप्त आवहादीन् वाहयतीति वायुवाहनः ।

३३२ वासुदेवः - वसति वासयति आच्छादयति सर्वमिति वा वासुः, दीव्यति क्रीडते विजिगीषते व्यवहरति द्योतते स्तूयते गच्छतीति वा देवः, वासुश्चासौ देवश्चेति वासुदेवः ।

३३३ बृहद्भानुः - बृहन्तो भानवो यस्य चन्द्रसूर्यादिगामिनः तैर्विश्वं भासयति यः स बृहद्भानुरुच्यते ।

३३४ आदिदेवः - आदिः कारणम्, स चासौ देवश्चेति आदिदेवः द्योतनादिगुणवान् देवः ।

३३५ पुरन्दरः - सुरशत्रूणां पुराणां दारणात् पुरन्दरः। 'वाचं यमपुरन्दरौ च' (६।३।६९) इति पाणिनिना निपातनात् ।

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥३७॥

३३६ अशोकः - शोकादिषडूर्मिवर्जितः अशोकः ।

३३७ तारणः - संसारसागरात्तारयतीति तारणः ।

३३८ तारः - गर्भजन्मजरामृत्युलक्षणाद् भयात्तारयतीति तारः ।

३३९ शूरः - विक्रमणात् शूरः ।

३४० शौरिः - शूरस्यापत्यं वसुदेवस्य सुतः शौरिः ।

३४१ जनेश्वरः - जनानां जन्तूनामीश्वरो जनेश्वरः ।

३४२ अनुकूलः - आत्मत्वेन हि सर्वेषाम् अनुकूलः, न हि स्वस्मिन् प्रातिकूल्यं स्वयमाचरति ।

३४३ शतावर्तः - धर्मत्राणाय शतमावर्तनानि प्रादुर्भावा अस्येति शतावर्तः नाडीशते प्राणरूपेण वर्तत इति वा ।

३४४ पद्मी - पद्मं हस्ते विद्यत इति पद्मी ।

३४५ पद्मनिभेक्षणः - पद्मनिभे ईक्षणे दृशावस्येति पद्मनिभेक्षणः ।

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥३८॥

३४६ पद्मनाभः - पद्मस्य नाभौ मध्ये कर्णिकायां स्थित इति पद्मनाभः ।

३४७ अरविन्दाक्षः - अरविन्दसदृशे अक्षिणी अस्येति अरविन्दाक्षः ।

३४८ पद्मगर्भः - पद्मस्य हृदयाख्यस्य मध्ये उपास्यत्वात् पद्मगर्भः ।

३४९ शरीरभृत् - पोषयन्नन्नरूपेण प्राणरूपेण वा शरीरिणां शरीराणि धारयतीति शरीरभृत् । स्वमायया शरीराणि बिभर्तीति वा ।

३५० महर्द्धिः - ऋद्धिर्विभूतिरस्येति महती महर्द्धिः ।

३५१ ऋद्धः - प्रपञ्चरूपेण वर्तमानत्वाद् ऋद्धः ।

३५२ वृद्धात्मा - वृद्धः पुरातन आत्मा यस्येति वृद्धात्मा ।

३५३ महाक्षः - महती अक्षिणी महान्त्यक्षीणि वा अस्येति महाक्षः ।

३५४ गरुडध्वजः - गरुडाङ्को ध्वजो यस्येति गरुडध्वजः ।

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥३९॥

३५५ अतुलः - तुलोपमानमस्य न विद्यत इति अतुलः ।

३५६ शरभः - शराः शरीराणि शीर्यमाणत्वात्तेषु प्रत्यगात्मतया भातीति शरभः ।

३५७ भीमः, (अभीमः) - बिभेत्यस्मात्सर्वमिति भीमः । सन्मार्गवर्तिनाम् अभीमः इति वा ।

३५८ समयज्ञः - सृष्टिस्थितिसंहारसमयवित्, षट्समयाञ्जानातीति वा समयज्ञः। सर्वभूतेषु समत्वं यजनं साध्वस्येति वा ।

३५९ हविर्हरिः - यज्ञेषु हविर्भागं हविर्भागं हरतीति हविर्हरिः । अथवा हूयते हविषेति हविः । स्मृतिमात्रेण पुंसां पापं संसारं वा हरतीति, हरिद्वर्णत्वाद् वा हरिः ।

३६० सर्वलक्षणलक्षण्यः - सर्वैर्लक्षणैः प्रमाणैर्लक्षणं ज्ञानं जायते यत्तद्विनिर्दिष्टं सर्वलक्षणलक्षणम्, तत्र साधुः सर्वलक्षणलक्षण्यः, तस्यैव परमार्थत्वात् ।

३६१ लक्ष्मीवान् - लक्ष्मीरस्य वक्षसि नित्यं वसतीति लक्ष्मीवान् ।

३६२ समितिञ्जयः - समितिं युद्धं जयतीति समितिञ्जयः ।

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥४०॥

३६३ विक्षर - विगतः क्षरो नाशो यस्यासौ विक्षरः ।

३६४ रोहित - स्वच्छन्दतया रोहितां मूर्तिं मत्स्यविशेषमूर्ति वा वहन् रोहितः ।

३६५ मार्गः - मुमुक्षवस्तं देवं मार्गयन्ति इति मार्गः; परमानन्दो येन प्राप्यते स मार्ग इति वा ।

३६६ हेतुः - उपादानं निमित्तं च कारणं स एवेति हेतुः।

३६७ दामोदरः - दमादिसाधनेनोदारोत्कृष्टा मतिर्या तया गम्यत इति दामोदरः । यशोदया दाम्नोदरे बद्ध इति वा दामोदरः ।

३६८ सहः - सर्वानभिभवति क्षमत इति वा सहः ।

३६९ महीधरः - महीं गिरिरूपेण धरतीति महीधरः ।

३७० महाभागः - स्वेच्छया धारयन् देहं महान्ति उत्कृष्टानि भोजनानि भागजन्यानि भुङ्क्ते इति महाभागः ।

३७१ वेगवान् - वेगो जवस्तद्वान् वेगवान् ।

३७२ अमिताशनः - संहारसमये अमिताशनः ।

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥४१॥

३७३ उद्भवः - प्रपञ्चोत्पत्त्युपादानकारणत्वात् उद्भवः उद्गतो भवात्संसारादिति वा ।

३७४ क्षोभणः - सर्गकाले प्रकृतिं पुरुषं च प्रविश्य क्षोभयामासेति क्षोभणः ।

३७५ देवः - यतो दीव्यति क्रीडति सर्गादिभिः, विजिगीषतेऽसुरादीन्, व्यवहरति सर्वभूतेषु, आत्मतया द्योतते स्तूयते स्तुत्यैः, सर्वत्र गच्छति तस्मात् देवः ।

३७६ श्रीगर्भः - श्रीर्विभूतिर्यस्योदरान्तरे जगद्रूपा यस्य गर्भे स्थिता स श्रीगर्भः ।

३७७ परमेश्वरः - परमश्चासावीशनशीलश्चेति परमेश्वरः ।

३७८ करणम् - जगदुत्पत्तौ साधकतमं करणम् ।

३७९ कारणम् - उपादानं निमित्तं च कारणम् ।

३८० कर्ता - कर्ता स्वतन्त्रः ।

३८१ विकर्ता - विचित्रं भुवनं क्रियते इति विकर्ता । स एव भगवान् विष्णुः ।

३८२ गहन - स्वरूपं सामर्थ्यं चेष्टितं वा तस्य ज्ञातुं न शक्यत इति गहनः ।

३८३ गुहः - गूहते संवृणोति स्वरूपादि निजमाययेति गुहः ।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥४२॥

३८४ व्यवसायः - संविन्मात्रस्वरूपत्वात् व्यवसायः ।

३८५ व्यवस्थानः - स्मिन् व्यवस्थितिः सर्वस्येति व्यवस्थानः । लोकपालाद्यधिकार-जरायुजाण्डजोद्भिज्ज-ब्राह्मणक्षत्रियवैश्यशूद्रावान्तरवर्ण-ब्रह्मचारिगृहस्थवानप्रस्थसंन्यासलक्षणाश्रम-

तद्धर्मादिकान् विभज्य करोति इति वा व्यवस्थानः।

३८६ संस्थानः - अत्र भूतानां संस्थितिः प्रलयात्मिका, समीचीनं स्थानमस्येति वा संस्थानः ।

३८७ स्थानदः - ध्रुवादीनां कर्मानुरूपं स्थानं ददातीति स्थानदः ।

३८८ ध्रुवः - अविनाशित्वात् ध्रुवः ।

३८९ परर्द्धिः - परा ऋद्धिर्विभूतिरस्येति परर्द्धिः ।

३९० परमस्पष्टः - परा मा शोभा अस्येति परमः, सर्वोत्कृष्टो वा अनन्याधीनसिद्धित्वात्, संविदात्मतया स्पष्टः परमस्पष्टः ।

३९१ तुष्टः - परमानन्दैकरूपत्वात् तुष्टः ।

३९२ पुष्टः - सर्वत्र सम्पूर्णत्वात् पुष्टः ।

३९३ शुभेक्षणः - ईक्षणं दर्शनं यस्य शुभं शुभकरं मुमुक्षूणां मोक्षदं भोगार्थिनां भोगदं सर्वसन्देहविच्छेदकारणं पापिनां पावनं हृदयग्रन्थेर्विच्छेदकरं सर्वकर्मणां क्षपणम् अविद्यायाश्च निवर्तकं स शुभेक्षणः ।

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥४३॥

३९४ रामः - नित्यानन्दलक्षणेऽस्मिन् योगिनो रमन्त इति रामः ।

३९५ विरामः - विरामोऽवसानं प्राणिनामस्मिन्निति विरामः ।

३९६ विरतः - विगतं रतमस्य विषयसेवायामिति विरतः ।

३९७ मार्गः - यं विदित्वा अमृतत्वाय कल्पन्ते योगिनो मुमुक्षवः स एव पन्थाः मार्गः ।

३९८ नेयः - मार्गेण सम्यग्ज्ञानेन जीवः परमात्मतया नीयत इति नेयः ।

३९९ नयः - नयतीति नयः नेता । मार्गो नेयो नय इति त्रिरूपः परिकल्प्यते ।

४०० अनयः - नास्य नेता विद्यत इति अनयः ।

४०१ वीरः - विक्रमशालित्वात् वीरः ।

४०२ शक्तिमतां श्रेष्ठः - शक्तिमतां विरिञ्चयादीनामपि शक्तिमत्त्वात् शक्तिमतां श्रेष्ठः ।

४०३ धर्मः - सर्वभूतानां धारणाद् धर्मः ।

४०४ धर्मविदुत्तमः - श्रुतयः स्मृतयश्च यस्याज्ञाभूताः स एव सर्वधर्मविदामुत्तमः इति धर्मविदुत्तमः ।

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥४४॥

४०५ वैकुण्ठः - विविधा कुण्ठा गतेः प्रतिहतिः । विकुण्ठा, विकुण्ठायाः कर्तेति वैकुण्ठः, जगदारम्भे विश्लिष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिं प्रतिबधातीति ।

४०६ पुरुषः - सर्वस्मात्पुरा सदनात्सर्वपापस्य सादनाद्वा पुरुषः । पुरि शयनाद्वा पुरुषः ।

४०७ प्राणः - प्राणिति क्षेत्रज्ञरूपेण प्राणात्मना चेष्टयन् वा प्राणः ।

४०८ प्राणदः - खण्डयति प्राणिनां प्राणान् प्रलयादिष्विति प्राणदः ।

४०९ प्रणवः - प्रणौतीति प्रणवः । प्रणम्यते इति वा प्रणवः ।

४१० पृथुः - प्रपञ्चरूपेण विस्तृतत्वात् पृथुः ।

४११ हिरण्यगर्भः - हिरण्यगर्भसम्भूतिकारणं हिरण्मयमण्डं यद्वीर्यसम्भूतम्, तदस्य गर्भ इति हिरण्यगर्भः ।

४१२ शत्रुघ्रः - त्रिदशशत्रून् हन्तीति शत्रुघ्नः ।

४१३ व्याप्तः - कारणत्वेन व्यापनाद् व्याप्तः ।

४१४ वायुः - सर्वकार्याणां वाति गन्धं करोतीति वायुः ।

४१५ अधोक्षजः - द्यौरक्षं पृथिवी चाधः, तयोर्यस्मादजायत मध्ये वैराजरूपेण इति वा अधोक्षजः अधोभूते प्रत्यक्प्रवाहिते अक्षगणे जायत इति वा अधोक्षजः ।

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥४५॥

४१६ ऋतुः - कालात्मना ऋतुशब्देन लक्ष्यत इति ऋतुः ।

४१७ सुदर्शनः - शोभनं निर्वाणफलं दर्शनं ज्ञानमस्येति, शुभे दर्शने ईक्षणे पद्मपत्रायते अस्येति, सुखेन दृश्यते भक्तैरिति वा सुदर्शनः ।

४१८ कालः - कलयति सर्वमिति कालः ।

४१९ परमेष्ठी - परमे प्रकृष्टे स्वे महिनि हृदयाकाशे स्थातुं शीलमस्येति परमेष्ठी ।

४२० परिग्रहः - शरणार्थिभिः परितो गृह्यते सर्वगतत्वात्, परितो ज्ञायते इति वा, पत्रपुष्पादिकं भक्तैरर्पितं परिगृह्णातीति वा परिग्रहः ।

४२१ उग्रः - सूर्यादीनामपि भयहेतुत्वात् उग्रः ।

४२२ संवत्सरः - संवसन्ति भूतान्यस्मिन्निति संवत्सरः ।

४२३ दक्षः - जगद्रूपेण वर्धमानत्वात् सर्वकर्माणि क्षिप्रं करोतीति वा दक्षः ।

४२४ विश्रामः - संसारसागरे क्षुत्पिपासादिषडूर्मिभिस्तरङ्गिते अविद्याद्यैर्महाक्लेशैः मदादिभिरुपक्लेशैश्च वशीकृतानां विश्रान्तिं काङ्क्षमाणानां विश्रामं मोक्षं करोतीति विश्रामः ।

४२५ विश्वदक्षिणः - विश्वस्मात् दक्षिणः शक्तः, विश्वेषु कर्मसु दाक्षिण्याद्वा विश्वदक्षिणः ।

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥४६॥

४२६ विस्तारः - विस्तीर्यन्ते समस्तानि जगन्त्यस्मिनिति विस्तारः ।

४२७ स्थावरस्थाणुः - स्थितिशीलत्वात् स्थावरः, स्थितिशीलानि पृथिव्यादीनि तिष्ठन्त्यस्मिन्निति स्थाणुः स्थावरश्चासौ

स्थाणुश्च स्थावरस्थाणुः ।

४२८ प्रमाणम् - संविदात्मना प्रमाणम् ।

४२९ बीजमव्ययम् - अन्यथाभावव्यतिरेकेण कारणमिति बीजमव्ययम्, सविशेषणमेकं नाम ।

४३० अर्थः - सुखरूपत्वात् सर्वैरर्थ्यत इति अर्थः ।

४३१ अनर्थः - न विद्यते प्रयोजनम् आप्तकामत्वात् अस्येति अनर्थः ।

४३२ महाकोशः - महान्तः कोशा अन्नमयादयः आच्छादका अस्येति महाकोशः ।

४३३ महाभोगः - महान् भोगः सुखरूपोऽस्येति महाभोगः ।

४३४ महाधनः - महत् भोगसाधनलक्षणं धनमस्येति महाधनः ।

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥४७॥

४३५ अनिर्विण्णः - आप्तकामत्वात् निर्वेदोऽस्य न विद्यत इति अनिर्विण्णः ।

४३६ स्थविष्ठः - वैराजरूपेण स्थितः स्थविष्ठः ।

४३७ अभूः, (भूः) - अजन्मा अभूः; अथवा भवतीति भूः 'भू सत्तायाम्' इत्यस्य सम्पदादित्वात् क्विप्, मही वा ।

४३८ धर्मयूपः - यूपे पशुवत् तत्समाराधनात्मका धर्मास्तत्र बध्यन्त इति धर्मयूपः ।

४३९ महामखः - यस्मिन्नर्पिता मखा यज्ञा निर्वाण- लक्षणफलं प्रयच्छन्तो महान्तो जायन्ते स महामखः ।

४४० नक्षत्रनेमिः - सज्योतिषां चक्रं भ्रामयंस्तारामयस्य शिशुमारस्य पुच्छदेशे व्यवस्थितो ध्रुवः । तस्य शिशुमारस्य हृदये ज्योतिश्चक्रस्य नेमिवत्प्रवर्तकः स्थितो विष्णुरिति नक्षत्रनेमिः शिशुमारवर्णने 'विष्णुर्हृदयम्' इति स्वाध्यायब्राह्मणे श्रूयते ।

४४१ नक्षत्री - चन्द्ररूपेण नक्षत्री, 'नक्षत्राणामहं शशी' ।

४४२ क्षमः - समस्तकार्येषु समर्थः क्षमः, क्षमत इति वा ।

४४३ क्षामः - सर्वविकारेषु क्षपितेषु स्वात्मनावस्थित इति क्षामः । क्षायो मः' (८।२।५३) इति निष्ठातकारस्य मकारादेशः ।

४४४ समीहनः - सृष्ट्याद्यर्थं सम्यगीहत इति समीहनः।

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥४८॥

४४५ यज्ञः - सर्वयज्ञस्वरूपत्वाद् यज्ञः सर्वेषां देवानां तुष्टिकारको यज्ञाकारेण प्रवर्तत इति वा ।

४४६ इज्यः - यष्टव्योऽप्ययमेवेति इज्यः ।

४४७ महेज्यः - सर्वासु देवतासु यष्टव्यासु प्रकर्षेण यष्टव्यो मोक्षफलदातृत्वादिति महेज्यः।

४४८ क्रतुः - यूपसहितो यज्ञः क्रतुः ।

४४९ सत्रम् - आसत्युपैति चोदनालक्षणं सत्रम् । सतस्त्रायत इति वा ।

४५० सतां गतिः - सतां मुमुक्षूणां नान्या गतिरिति सतां गतिः ।

४५१ सर्वदर्शी - सर्वेषां प्राणिनां कृताकृतं सर्वं पश्यति स्वाभाविकेन बोधेनेति सर्वदर्शी ।

४५२ विमुक्तात्मा - स्वभावेन विमुक्त आत्मा यस्येति, विमुक्तश्चासावात्मा चेति वा विमुक्तात्मा ।

४५३ सर्वज्ञः - सर्वश्चासौ ज्ञश्चेति सर्वज्ञः ।

४५४ ज्ञानमुत्तमम् - ज्ञानमुत्तममित्येतत्सविशेषणमेकं नामः ज्ञानं प्रकृष्टमजन्यमनवच्छिन्नं सर्वस्य साधकतमिति ज्ञानमुत्तमं ब्रह्म

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥४९॥

४५५ सुव्रतः - शोभनं व्रतमस्येति सुव्रतः ।

४५६ सुमुखः - शोभनं मुखमस्येति सुमुखः । वनवाससुमुखत्वाद् वा दाशरथी रामः सुमुखः । सर्वविद्योपदेशेन वा सुमुखः ।

४५७ सूक्ष्मः - शब्दादिस्थूलकारणरहितत्वात् शब्दादयो ह्याकाशादीनामुत्तरोत्तरस्थूलत्वकारणानि तद्भावात् सूक्ष्मः ।

४५८ सुघोषः - शोभनो घोषो वेदात्मकोऽस्येति, मेघगम्भीरघोषत्वाद् वा सुघोषः ।

४५९ सुखदः - सद्वृत्तानां सुखं ददाति, असद्वृत्तानां सुखं द्यति खण्डयतीति वा सुखदः ।

४६० सुहृत् - प्रत्युपकारानिरपेक्षतयोपकारित्वात् सुहृत् ।

४६१ मनोहरः - निरतिशयानन्दरूपत्वात् मनो हरतीति मनोहरः ।

४६२ जितक्रोधः - जितः क्रोधो येन स जितक्रोधः, वेदमर्यादास्थापनार्थं सुरारीन् हन्ति न तु कोपवशादिति ।

४६३ वीरबाहुः - त्रिदशशत्रून्निघ्नन् वेदमर्यादां स्थापयन् विक्रमशाली बाहुरस्येति वीरबाहुः ।

४६४ विदारणः - अधार्मिकान् विदारयतीति विदारणः ।

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥५०॥

४६५ स्वापनः - प्राणिनः स्वापयन् आत्मसम्बोधविधुरान् मायया कुर्वन् स्वापनः ।

४६६ स्ववशः - स्वतन्त्रः स्ववशः, जगदुत्पत्तिस्थितिलयहेतुत्वात् ।

४६७ व्यापी - आकाशवत् सर्वगतत्वात् व्यापी । कारणत्वेन सर्वकार्याणां व्यापनाद् वा व्यापी ।

४६८ नैकात्मा - जगदुत्पत्त्यादिषु आविर्भूतनिमित्तशक्तिभिर्विभूतिभिरनेकधा तिष्ठन् नैकात्मा ।

४६९ नैककर्मकृत् - जगदुत्पत्तिसम्पत्तिविपत्तिप्रभृतिकर्माणि करोतीति नैककर्मकृत् ।

४७० वत्सरः - वसत्यत्राखिलमिति वत्सरः ।

४७१ वत्सलः - भक्तस्नेहित्वात् वत्सलः; 'वत्सां- साभ्यां कामबले' (पा० सू० ५।२। ९८) इति लच्प्रत्ययः ।

४७२ वत्सी - वत्सानां पालनात् वत्सी, जगत्- पितुस्तस्य वत्सभूताः प्रजा इति वा वत्सी ।

४७३ रत्नगर्भः - रत्नानि गर्भभूतानि अस्येति समुद्रो रत्नगर्भः ।

४७४ धनेश्वरः - धनानामीश्वरः धनेश्वरः ।

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥५१॥

४७५ धर्मगुप् - धर्मं गोपयतीति धर्मगुप् ।

४७६ धर्मकृत् - धर्माधर्मविहीनोऽपि धर्ममर्यादा-

स्थापनार्थं धर्ममेव करोतीति धर्मकृत् । धर्मान् धारयतीति धर्मी ।

४७७ धर्मी - धर्मान् धारयतीति धर्मी ।

४७८ सत् - अवितथं परं ब्रह्म सत् ।

४७९ असत् - अपरं ब्रह्म असत् ।

४८० क्षरम् - सर्वाणि भूतानि क्षरम् ।

४८१ अक्षरम् - कूटस्थः भूतानि अक्षरम् ।

४८२ अविज्ञाता - आत्मनि कर्तृत्वादिविकल्पविज्ञानं कल्पितमिति तद्वासनावगुण्ठितो जीवो विज्ञाता, तद्विलक्षणो विष्णुः अविज्ञाता ।

४८३ सहस्रांशुः - आदित्यादिगताऽस्येत्ययमेव मुख्यः सहस्रांशुः ।

४८४ विधाता - विशेषेण शेषदिग्गजभूधरान् सर्वभूतानां धातॄन् दधातीति विधाता ।

४८५ कृतलक्षणः - नित्यनिष्पन्नचैतन्यरूपत्वात् कृतलक्षणः, कृतानि लक्षणानि शास्त्राण्यनेनेति वा । इत्यत्रैव वक्ष्यति ; सजातीयविजातीयव्यवच्छेदकं लक्षणं सर्वभावानां कृतमनेनेति वा; आत्मनः श्रीवत्सलक्षणं वक्षसि तेन कृतमिति वा कृतलक्षणः ।

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥५२॥

४८६ गभस्तिनेमिः - गभस्तिचक्रस्य मध्ये सूर्यात्मना स्थित इति गभस्तिनेमिः ।

४८७ सत्त्वस्थः - सत्त्वं गुणं प्रकाशकं प्राधान्येनाधितिष्ठतीति, सर्वप्राणिषु तिष्ठतीति वा सत्त्वस्थः ।

४८८ सिंहः - विक्रमशालित्वात् सिंहवत् सिंहः । नृशब्दलोपेन 'सत्यभामा भामा' इतिवद् वा सिंहः ।

४८९ भूतमहेश्वरः - भूतानां महानीश्वरः भूतेन सत्येन स एव परमो महानीश्वरः इति वा भूतमहेश्वरः ।

४९० आदिदेवः - सर्वभूतान्यादीयन्तेऽनेनेति आदिः । आदिश्चासौ देवश्चेति आदिदेवः ।

४९१ महादेवः - सर्वान् भावान् परित्यज्य, आत्मज्ञानयोगैश्वर्ये महति महीयते, तस्मादुच्यते महादेवः ।

४९२ देवेशः - प्राधान्येन देवानामीशो देवेशः ।

४९३ देवभृद्गुरुः - देवान् विभर्तीति देवभृत् शक्रः, तस्यापि शासितेति देवभृद्गुरुः ।

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥५३॥

४९४ उत्तरः - जन्मसंसारबन्धनादुत्तरतीति उत्तरः । सर्वोत्कृष्ट इति वा ।

४९५ गोपतिः - गवां पालनाद् गोपवेषधरो गोपतिः । गौर्मही; तस्याः पतित्वाद् वा ।

४९६ गोप्ता - समस्तभूतानि पालयन् जगतः इति गोप्ता ।

४९७ ज्ञानगम्यः - न कर्मणा न ज्ञानकर्मभ्यां वा गम्यते, किन्तु ज्ञानेन गम्यत इति ज्ञानगम्यः ।

४९८ पुरातनः - कालेनापरिच्छिन्नत्वात् पुरापि भवतीति पुरातनः ।

४९९ शरीरभूतभृत् - शरीरारम्भकभूतानां भरणात् प्राणरूपधरः शरीरभूतभृत् ।

५०० भोक्ता - पालकत्वाद् भोक्ता; परमानन्दसन्दोहसम्भोगाद् वा भोक्ता ।

५०१ कपीन्द्रः - कपिश्चासाविन्द्रश्चेति कपिर्वराहः, वाराहं वपुरास्थितः कपीन्द्रः । कपीनां वानराणामिन्द्रः कपीन्द्रः राघवो वा ।

५०२ भूरिदक्षिणः - भूरयः बह्वयः यज्ञदक्षिणाः धर्ममर्यादां दर्शयतो यज्ञं कुर्वतो विद्यन्त इति भूरिदक्षिणः ।

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥५४॥

५०३ सोमपः - सोमं पिबति सर्वयज्ञेषु यष्टव्यदर्शयन् यजमानरूपेण वा सोमपः ।

५०४ अमृतपः - स्वात्मामृतरसं पिबन् अमृतपः, असुरैः ह्रियमाणममृतं रक्षित्वा देवान् पाययित्वा स्वयमप्यपिबदिति वा ।

५०५ सोमः - सोमरूपेणौषधीः पोषयन् सोमः ।

५०६ पुरुजित् - उमया सहितः शिवो वा पुरून् बहून् जयतीति पुरुजित् ।

५०७ पुरुसत्तमः - विश्वरूपत्वात् पुरुः, उत्कृष्टत्वात् सत्तमः, पुरुश्चासौ सत्तमश्चेति पुरुसत्तमः ।

५०८ विनयः - विनयं दण्डं करोति दुष्टानामिति विनयः ।

५०९ जयः - समस्तानि भूतानि जयतीति जयः ।

५१० सत्यसन्धः - सत्या सन्धा सङ्कल्पः अस्येति सत्यसन्धः ।

५११ दाशार्हः - दाशो दानं तमर्हतीति दाशार्हः ।

५१२ सात्वतां पतिः - दशार्हकुलोद्भवत्वाद् वा । सात्वतं नाम तन्त्रम्, 'तत् करोति तदाचष्टे' (चुरादिगणसूत्रम् ) इति णिचि कृते विप्प्रत्यये णिलोपे च कृते पदं सात्वत्, तेषां पतिः योगक्षेमकर इति सात्वतां पतिः ।

जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥५५॥

५१३ जीवः - प्राणान् क्षेत्रज्ञरूपेण धारयन् जीवः उच्यते ।

५१४ विनयितासाक्षी ( असाक्षी) - विनयित्वं विनयिता, तां च साक्षात् पश्यति प्रजानामिति विनयितासाक्षी; अथवा, नयतेर्गतिवाचिनो रूपं विनयिता, असाक्षी असाक्षाद्द्रष्टा आत्मातिरिक्तं वस्तु न पश्यतीत्यर्थः ।

५१५ मुकुन्दः - मुक्तिं ददातीति मुकुन्दः । पृषोदरादित्वात्साधुत्वम् ।अक्षरसाम्यान्निरुक्तिवचनात् नैरुक्तानां मुकुन्द इति निरुक्तिः ।

५१६ अमितविक्रमः - अमिता अपरिच्छिन्ना विक्रमास्त्रयः पादविक्षेपा अस्य, अमितं विक्रमणं शौर्यमस्येति वा अमितविक्रमः ।

५१७ अम्भोनिधिः - अम्भांसि देवादयोऽस्मि - निधीयन्त इति अम्भोनिधिः । सागरो वा ।

५१८ अनन्तात्मा - देशतः कालतो वस्तुतश्चापरि- च्छिन्नत्वात् अनन्तात्मा ।

५१९ महोदधिशयः - संहृत्य सर्वभूतान्येकार्णवं जगत् कृत्वा अधिशेते महोदधिमिति महोदधिशयः ।

५२० अन्तकः - अन्तं करोति भूतानामिति अन्तकः ।

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥५६॥

५२१ अजः - आत् विष्णोरजायत इति कामः अजः ।

५२२ महार्हः - महः पूजा तदर्हत्वात् महार्हः ।

५२३ स्वाभाव्यः - स्वभावेनैवाभाव्यो नित्यनिष्पन्न- रूपत्वाद् इति स्वाभाव्यः ।

५२४ जितामित्रः - जिता अमित्रा अन्तर्वर्तिनो रागद्वेषादयो बाह्याश्च रावणकुम्भकर्णशिशुपालादयो येनासौ जितामित्रः ।

५२५ प्रमोदनः - स्वात्मामृतरसास्वादान्नित्यं प्रमोदते, ध्यायिनां ध्यानमात्रेण प्रमोदं करोतीति वा प्रमोदनः ।

५२६ आनन्दः - आनन्दः स्वरूपमस्येति आनन्दः ।

५२७ नन्दनः - नन्दयतीति नन्दनः ।

५२८ नन्दः (अनन्दः) - सर्वाभिरुपपत्तिभिः नन्दः ।

५२९ सत्यधर्मा - सत्या धर्मा ज्ञानादयो ऽस्येति सत्यधर्मा ।

५३० त्रिविक्रमः - त्रयोविक्रमास्त्रिषु लोकेषु क्रान्ता यस्य स त्रिविक्रमः, त्रयो लोकाः क्रान्ता येनेति वा त्रिविक्रमः ।

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥५७॥

५३१ महर्षिः कपिलाचार्यः - महर्षिः कपिलाचार्यः इति सविशेषणमेकं नाम महांश्चासावृषिश्चेति महर्षिः कृत्स्नस्य वेदस्य दर्शनात् । अन्ये तु वेदैकदेशदर्शनाद् ऋषयःकपिलश्चासौ शुद्धतत्त्वविज्ञानस्याचार्यश्चेति कपिलाचार्यः ।

५३२ कृतज्ञः - कृतं कार्यं जगत् ज्ञ आत्मा, कृतं च तज् ज्ञश्चेति कृतज्ञः ।

५३३ मेदिनीपतिः - मेदिन्या भूम्याः पतिः मेदिनीपतिः ।

५३४ त्रिपदः - त्रीणि पदान्यस्येति त्रिपदः ।

५३५ त्रिदशाध्यक्षः - गुणावेशेन सञ्जातास्तिस्रो दशा अवस्था जाग्रदादयः, तासामध्यक्ष इति त्रिदशाध्यक्षः ।

५३६ महाशृङ्गः - मत्स्यरूपी महति शृङ्गे प्रलया- म्भोधौ नावं बद्ध्वा चिक्रीड इति महाशृङ्गः ।

५३७ कृतान्तकृत् - कृतस्यान्तं संहारं करोतीति, कृतान्तं मृत्युं कृन्ततीति वा कृतान्तकृत् ।

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥५८॥

५३८ महावराहः - महांश्चासौ वराहश्चेति महावराहः ।

५३९ गोविन्दः - गोभिर्वाणीभिर्विन्दते, वेत्ति वेदान्तवाक्यैरिति वा गोविन्दः ।

५४० सुषेणः - शोभना सेना गणात्मिका यस्येति सुषेणः ।

५४१ कनकाङ्गदी - कनकमयान्यङ्गदानि अस्येति कनकाङ्गदी ।

५४२ गुह्यः - रहस्योपनिषद्वेद्यत्वाद् गुहायां हृदयाकाशे निहित इति वा गुह्यः ।

५४३ गभीरः - ज्ञानैश्वर्यबलवीर्यादिभिर्गम्भीरो गभीरः ।

५४४ गहनः - दुष्प्रवेशत्वात् गहनः, अवस्थात्रयभावाभावसाक्षित्वाद् गहनो वा ।

५४५ गुप्तः - वाङ्मनसागोचरत्वात् गुप्तः ।

५४६ चक्रगदाधरः - मुक्तश्चक्रगदाधर इति चक्रगदाधरः ।

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥५९॥

५४७ वेधाः - विधाता वेधाः । पृषोदरादित्वात् साधुत्वम् ।

५४८ स्वाङ्गः - स्वयमेव कार्यकरणे अड़ं सहकारीति स्वाङ्गः ।

५४९ अजितः - न केनाप्यवतारेषु जित इति अजितः ।

५५० कृष्णः - कृष्णः कृष्णद्वैपायनः ।

५५१ दृढः - च्युत्यभावात् दृढः ।

५५२ सङ्कर्षणोऽच्युतः - संहारसमये युगपत् प्रजाः सङ्कर्षतीति सङ्कर्षणः, न च्योतति स्वरूपादित्यच्युतः, सङ्कर्षणोऽच्युतः इति

नामैकं सविशेषणम् ।

५५३ वरुणः - स्वरश्मीनां संवरणात् सायङ्गतः सूर्यो वरुणः ।

५५४ वारुणः - वरुणस्यापत्यं वसिष्ठोऽगस्त्यो वा वारुणः ।

५५५ वृक्षः - वृक्ष इवाचलतया स्थित इति वृक्षः ।

५५६ पुष्कराक्षः - व्याप्त्यर्थादक्षतेर्धातोः पुष्करोपपदादण्प्रत्यये पुष्कराक्षः ।

५५७ महामनाः - सृष्टिस्थित्यन्तकर्माणि मनसैव करोतीति महामनाः ।

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥६०॥

५५८ भगवान् - सोऽस्यास्तीति भगवान् ।

५५९ भगहा - ऐश्वर्यादिकं संहारसमये हन्तीति भगहा ।

५६० आनन्दी - सुखस्वरूपत्वात् आनन्दी; सर्वसम्पत्समृद्धत्वादानन्दी वा ।

५६१ वनमाली - भूततन्मात्ररूपां वैजयन्त्याख्यां वनमालां वहन् वनमाली ।

५६२ हलायुधः - हलमायुधमस्येति बलभद्राकृतिः हलायुधः ।

५६३ आदित्यः - अदित्यां कश्यपाद् वामनरूपेण जात आदित्यः ।

५६४ ज्योतिरादित्यः - ज्योतिषि सवितृमण्डले स्थितो ज्योतिरादित्यः ।

५६५ सहिष्णुः - द्वन्द्वानि शीतोष्णादीनि सहत इति सहिष्णुः ।

५६६ गतिसत्तमः - गतिश्चासौ सत्तमश्चेति गतिसत्तमः ।

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥६१॥

५६७ सुधन्वा - शोभनमिन्द्रियादिमयं धनुरस्यास्तीति सुधन्वा ।

५६८ खण्डपरशुः, (अखण्डपरशुः) - शत्रूणां खण्डनात् खण्डः परशुरस्य जामदग्न्याकृतेरिति खण्डपरशुः; अखण्डः परशुरस्येति वा ।

५६९ दारुणः - सन्मार्गविरोधिनां दारुणत्वात् दारुणः ।

५७० द्रविणप्रदः - भक्तेभ्यः द्रविणं वाञ्छितं प्रददातीति द्रविणप्रदः ।

५७१ दिवःस्पृक् - दिवः स्पर्शनात् दिवः स्पृक् ।

५७२ सर्वदृग्व्यासः - सर्वदृशां सर्वज्ञानानां विस्तारकृद् व्यासः सर्वदृग्व्यासः । अथवा, सर्वा च सा दृक् चेति सर्वदृक् सर्वाकारं ज्ञानम्; सर्वस्य दृष्टित्वाद् वा सर्वदृक् । ऋग्वेदादिविभागेन चतुर्धा वेदा व्यस्ताः कृताः, आद्यो वेद एकविंशतिधा कृतः, द्वितीय एकोत्तरशतधा कृतः सामवेदः सहस्त्रधा कृतः, अथर्ववेदो नवधा शाखाभेदेन कृतः । एवम् अन्यानि च पुराणानि व्यस्तान्यनेनेति व्यासः ब्रह्मा ।

५७३ वाचस्पतिरयोनिजः - वाचो वाचस्पतिरयोनिजः, विद्यायाः पतिः वाचस्पतिः, जनन्यां न जायत इति अयोनिजः; इति सविशेषणमेकं नाम।

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥६२॥

५७४ त्रिसामा - देवव्रतसमाख्यातैस्त्रिभिः सामभिः सामगैः स्तुत इति त्रिसामा ।

५७५ सामगः - साम गायतीति सामगः ।

५७६ साम - 'वेदानां सामवेदोऽस्मि' इति भगवद्वचनात् सामवेदः साम ।

५७७ निर्वाणम् - सर्वदुःखोपशमलक्षणं परमानन्दरूपं निर्वाणम् ।

५७८ भेषजम् - संसाररोगस्यौषधं भेषजम् ।

५७९ भिषक् - संसाररोगनिर्मोक्षकारिणीं परां विद्यामुपदिदेश गीतास्विति भिषक् ।

५८० संन्यासकृत् - मोक्षार्थं चतुर्थमाश्रमं कृतवानिति संन्यासकृत् ।

५८१ शमः - संन्यासिनां प्राधान्येन ज्ञानसाधनं शममाचष्ट इति शमः । ' तत् करोति तदाचष्टे'

(चुरादिगणसूत्रम्) इति णिचि पचाद्यचि कृते रूपं शम इति । सर्वभूतानां शमयितेति वा शमः ।

५८२ शान्तः - विषयसुखेष्वसङ्गतया शान्तः ।

५८३ निष्ठा - प्रलये नितरां तत्रैव तिष्ठन्ति भूतानीति निष्ठा ।

५८४ शान्तिः - समस्ताविद्यानिवृत्तिः शान्तिः सा ब्रह्मैव ।

५८५ परायणम् - परमुत्कृष्टमयनं स्थानं पुनरावृत्तिशङ्कारहितमिति परायणम् । पुँल्लिङ्गपक्षे बहुव्रीहिः ।

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥६३॥

५८६ शुभाङ्गः - सुन्दरां तनुं धारयन् शुभाङ्गः ।

५८७ शान्तिदः - रागद्वेषादिनिर्मोक्षलक्षणां शान्तिं ददातीति शान्तिदः ।

५८८ स्रष्टा - सर्गादौ सर्वभूतानि ससर्जे स्रष्टा ।

५८९ कुमुदः - कौ भूम्यां मोदत इति कुमुदः ।

५९० कुवलेशयः - कोः क्षितेर्वलनात् संसरणात् कुवलं जलम् तस्मिन् शेत इति कुवलेशयः । 'शयवासवासिष्वकालात्'

(६।३।१८) इति अलुक् सप्तम्याः; कुवलस्य बदरीफलस्य मध्ये शेते तक्षकः, सोऽपि तस्य विभूतिरिति वा हरिः कुवलेशयः; कौ भूम्यां वलते संश्रयत इति सर्पाणामुदरं कुवलम् तस्मिन् शेषोदरे शेत इति कुवलेशयः ।

५९१ गोहितः - गवां वृद्ध्यर्थं गोवर्धनं धृतवानिति गोभ्यो हितो गोहितः; गोर्भूमेः भारावतरणेच्छया शरीरग्रहणं कुर्वन् वा गोहितः ।

५९२ गोपतिः - गोर्भूम्याः पतिः गोपतिः ।

५९३ गोप्ता - स्वमायया स्वमात्मानं संवृणोतीति वा गोप्ता ।

५९४ वृषभाक्षः - सकलान् कामान् वर्षुके अक्षिणी अस्येति, वृषभो धर्मः स एव वा दृष्टिरस्येति वृषभाक्षः ।

५९५ वृषप्रियः - वृषो धर्मः प्रियो यस्य स वृषप्रियः; ‘वा प्रियस्य' (वार्तिकम्) इति पूर्वनिपातविकल्पविधानात् परनिपातः वृषश्चासौ प्रियश्चेति वा ।

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥६४॥

५९६ अनिवर्ती - देवासुरसंग्रामान्न निवर्तत इति अनिवर्ती; वृषप्रियत्वाद्धर्मान्न निवर्तत इति वा ।

५९७ निवृत्तात्मा - स्वभावतो विषयेभ्यो निवृत्त आत्मा मनोऽस्येति निवृत्तात्मा ।

५९८ सङ्क्षेप्ता - विस्तृतं जगत् संहारसमये सूक्ष्मरूपेण सङ्क्षिपन् सङ्क्षेप्ता ।

५९९ क्षेमकृत् - उपात्तस्य परिरक्षणं करोतीति क्षेमकृत् ।

६०० शिवः - स्वनामस्मृतिमात्रेण पावयन् शिवः ।

६०१ श्रीवत्सवक्षाः - श्रीवत्ससंज्ञं चिह्नमस्य वक्षसि स्थितमिति श्रीवत्सवक्षाः ।

६०२ श्रीवासः - अस्य वक्षसि श्रीरनपायिनी वसतीति श्रीवासः

६०३ श्रीपतिः - अमृतमथने सर्वान् सुरासुरादीन् विहाय श्रीरेनं पतित्वेन वरयामासेति श्रीपतिः । श्रीः परा शक्तिः, तस्याः पतिरिति वा ।

६०४ श्रीमतां वरः - ऋग्यजुः सामलक्षणा श्रीर्येषां तेषां सर्वेषां श्रीमतां विरिञ्चयादीनां प्रधानभूतः श्रीमतां वरः ।

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥६५॥

६०५ श्रीदः - श्रियं ददाति भक्तानामिति श्रीदः ।

६०६ श्रीशः - श्रिय ईशः श्रीशः ।

६०७ श्रीनिवासः - श्रीमत्सु नित्यं वसतीति श्रीनिवासः ।

६०८ श्रीनिधिः - श्रीशब्देन श्रीमन्तो लक्ष्यन्ते । सर्वशक्तिमयेऽस्मिन्नखिलाः श्रियो निधीयन्त इति श्रीनिधिः ।

६०९ श्रीविभावनः - कर्मानुरूपेण विविधाः श्रियः सर्वभूतानां विभावयतीति श्रीविभावनः ।

६१० श्रीधरः - सर्वभूतानां जननीं श्रियं वक्षसि वहन् श्रीधरः ।

६११ श्रीकरः - स्मरतां स्तुवताम् अर्चयतां च भक्तानां श्रियं करोतीति श्रीकरः ।

६१२ श्रेयः - अनपायिसुखावाप्तिलक्षणं श्रेयः, तच्च परस्यैव रूपमिति श्रेयः ।

६१३ श्रीमान् - श्रियोऽस्य सन्तीति श्रीमान् ।

६१४ लोकत्रयाश्रयः - त्रयाणां लोकानाम् आश्रयत्वात् लोकत्रयाश्रयः ।

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥६६॥

६१५ स्वक्षः - शोभने पुण्डरीकाभे अक्षिणी अस्येति स्वक्षः ।

६१६ स्वङ्गः - शोभनान्यङ्गानि अस्येति स्वङ्गः ।

६१७ शतानन्दः - एक एव परमानन्द उपाधि- भेदाच्छतधा भिद्यत इति शतानन्दः ।

६१८ नन्दिः - परमानन्दविग्रहो नन्दिः ।

६१९ ज्योतिर्गणेश्वरः - ज्योतिर्गणानामीश्वरः ज्योतिर्गणेश्वरः।

६२० विजितात्मा - विजित आत्मा मनो येन स विजितात्मा ।

६२१ अविधेयात्मा - न केनापि विधेय आत्मा स्वरूपमस्येति अविधेयात्मा ।

६२२ सत्कीर्तिः - सती अवितथा कीर्तिरस्येति सत्कीर्तिः ।

६२३ छिन्नसंशयः - करतलामलकवत् सर्वं साक्षात्- कृतवतः क्वापि संशयो नास्तीति छिन्नसंशयः ।

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥६७॥

६२४ उदीर्णः - सर्वभूतेभ्यः समुद्रिक्तत्वात् उदीर्णः ।

६२५ सर्वतश्चक्षुः - सर्वतः सर्वं स्वचैतन्येन पश्यतीति सर्वतश्चक्षुः ।

६२६ अनीशः - न विद्यतेऽस्येश इति अनीशः ।

६२७ शाश्वतस्थिरः - शश्वद् भवन्नपि न विक्रियां कदाचिदुपैति इति शाश्वतस्थिरः इति नामैकम् ।

६२८ भूशयः - लङ्कां प्रति मार्गमन्वेषयन् सागरं प्रति भूमौ शेत इति भूशयः ।

६२९ भूषणः - स्वेच्छावतारैः बहुभिः भूमिं भूषयन् भूषणः ।

६३० भूतिः - भूतिः भवनं सत्ता, विभूतिर्वा, सर्वविभूतीनां कारणत्वाद् वा भूतिः ।

६३१ विशोकः - विगतः शोकोऽस्य परमानन्दैकरूपत्वादिति विशोकः ।

६३२ शोकनाशनः - स्मृतिमात्रेण भक्तानां शोकं नाशयतीति शोकनाशनः ।

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥६८॥

६३३ अर्चिष्मान् - अर्चिष्मन्तो यदीयेनार्चिषा चन्द्रसूर्यादयः, स एव मुख्यः अर्चिष्मान् ।

६३४ अर्चितः - सर्वलोकार्चितैर्विरिञ्च्यादिभिरप्यर्चित इति अर्चितः ।

६३५ कुम्भः - कुम्भवदस्मिन् सर्वं प्रतिष्ठितमिति कुम्भः ।

६३६ विशुद्धात्मा - विशुद्धश्वासावात्मेति विशुद्धात्मा ।

६३७ विशोधनः - स्मृतिमात्रेण पापानां क्षपणात् विशोधनः ।

६३८ अनिरुद्धः - चतुर्व्यूहेषु चतुर्थो व्यूहः अनिरुद्धः, न निरुद्धयते शत्रुभिः कदाचिदिति वा ।

६३९ अप्रतिरथः - प्रतिरथः प्रतिपक्षोऽस्य न विद्यत इति अप्रतिरथः ।

६४० प्रद्युम्नः - प्रकृष्टं द्युम्नं द्रविणमस्येति प्रद्युम्नः, चतुर्व्यूहात्मा वा ।

६४१ अमितविक्रमः - अमितोऽतुलितो विक्रमोऽस्य इति अमितविक्रमः, अहिंसितविक्रमो वा ।

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥६९॥

६४२ कालनेमिनिहा - कालनेमिमसुरं निजघानेति कालनेमिनिहा ।

६४३ वीरः - वीरः शूरः ।

६४४ शौरिः - शूरकुलोद्भवत्वात् शौरिः ।

६४५ शूरजनेश्वरः - शूरजनानां वासवादीनां शौर्यातिशयेनेष्ट इति शूरजनेश्वरः ।

६४६ त्रिलोकात्मा - त्रयाणां लोकानाम् अन्तर्यामितया आत्मेति त्रयो त्रयो लोका अस्मात्परमार्थतो न भिद्यन्त इति वा त्रिलोकात्मा ।

६४७ त्रिलोकेशः - त्रयो लोकास्तदाज्ञप्ताः स्वेषु स्वेषु कर्मसु वर्तन्त इति त्रिलोकेशः ।

६४८ केशवः - केशसंज्ञिताः सूर्यादिसङ्क्रान्ता अंशवः, तद्वत्तया केशवः । ब्रह्मविष्णु शिवाख्याः शक्तयः केशसंज्ञिताः; तद्वत्तया वा केशवः ।

६४९ केशिहा - केशिनामानमसुरं हतवानिति केशिहा ।

६५० हरिः - सहेतुकं संसारं हरतीति हरिः ।

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥७०॥

६५१ कामदेवः - धर्मादिपुरुषार्थचतुष्टयं वाञ्छद्भिः काम्यत इति कामः स चासौ देवश्चेति कामदेवः ।

६५२ कामपालः - कामिनां कामान् पालयतीति कामपालः ।

६५३ कामी - पूर्णकामस्वभावत्वात् कामी ।

६५४ कान्तः - अभिरूपतमं देहं वहन् कान्तः । द्विपरार्धान्ते कस्य ब्रह्मणोऽप्यन्तोऽस्मादिति वा कान्तः ।

६५५ कृतागमः - कृत आगमः श्रुतिस्मृत्यादि- लक्षणो येन स कृतागमः ।

६५६ अनिर्देश्यवपुः - इदं तदीदृशं वेति निर्देष्टं यन्न शक्यते गुणाद्यतीतत्वात् तदेव रूपमस्येति अनिर्देश्यवपुः ।

६५७ विष्णुः - रोदसी व्याप्य कान्तिरभ्यधिका स्थितास्येति विष्णुः ।

६५८ वीरः - गत्यादिमत्त्वात् वीरः ।

६५९ अनन्तः - व्यापित्वान्नित्यत्वात् सर्वात्मत्वाद् देशतः कालतो वस्तुतश्चापरिच्छिन्नः, अनन्तः ।

६६० धनञ्जयः - यद्दिग्विजये प्रभूतं धनमजयत्तेन धनञ्जयः ।

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥७१॥

६६१ ब्रह्मण्यः - तेभ्यो हितत्वात् ब्रह्मण्यः ।

६६२ ब्रह्मकृत् - तपआदीनां कर्तृत्वात् ब्रह्मकृत् ।

६६३ ब्रह्मा - ब्रह्मात्मना सर्वं सृजतीति ब्रह्मा ।

६६४ ब्रह्म - बृहत्त्वाद् बृंहणत्वाच्च सत्यादि- लक्षणं ब्रह्म ।

६६५ ब्रह्मविवर्धनः - तपआदीनां विवर्धनात् ब्रह्मविवर्धनः ।

६६६ ब्रह्मवित् - वेदं वेदार्थं च यथावद् वेत्तीति ब्रह्मवित् ।

६६७ ब्राह्मणः - ब्राह्मणात्मना समस्तानां लोकानां प्रवचनं कुर्वन् वेदस्यायमिति ब्राह्मणः ।

६६८ ब्रह्मी - ब्रह्मसंज्ञितास्तच्छेषभूता अत्रेति ब्रह्मी ।

६६९ ब्रह्मज्ञः - वेदान् स्वात्मभूतान् जानातीति ब्रह्मज्ञः ।

६७० ब्राह्मणप्रियः - ब्राह्मणानां प्रियो ब्राह्मणप्रियः; ब्राह्मणाः प्रिया अस्येति वा ।

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥७२॥

६७१ महाक्रमः - महान्तः क्रमाः पादविक्षेपा अस्येति महाक्रमः ।

६७२ महाकर्मा - महत् जगदुत्पत्त्यादि कर्मास्येति महाकर्मा ।

६७३ महातेजाः - यदीयेन तेजसा तेजस्विनो भास्करादयः, तत्तेजो महदस्येति महातेजाः । क्रौर्यशौर्यादिभिर्धर्मैर्महद्भिः समलङ्कृत इति वा महातेजाः ।

६७४ महोरगः - महांश्चासावुरगश्चेति महोरगः ।

६७५ महाक्रता - महांश्चासौ क्रतुश्चेति महाक्रतुः ।

६७६ महायज्वा - महांश्चासौ यज्वा चेति लोकसंग्रहार्थं यज्ञान् निर्वर्तयन् महायज्वा ।

६७७ महायज्ञः - महांश्चासौ यज्ञश्चेति महायज्ञः ।

६७८ महाहविः - महच्च तद्धविश्चेति ब्रह्मात्मनि सर्वं जगत्तदात्मतया हूयत इति महाहविः। महाक्रतुरित्यादयो बहुव्रीहयो वा ।

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥७३॥

६७९ स्तव्यः - सर्वैः स्तूयते न स्तोता कस्यचिद् इति स्तव्यः ।

६८० स्तवप्रियः - अत एव स्तवप्रियः ।

६८१ स्तोत्रम् - येन स्तूयते तत् स्तोत्रम्, गुणसंकीर्तनात्मकं तद्धरिरेवेति ।

६८२ स्तुतिः - स्तुतिः स्तवनक्रिया ।

६८३ स्तोता - स्तोता अपि स एव ।

६८४ रणप्रियः - प्रियो रणो यस्य यतः पञ्च महायुधानि धत्ते सततं लोकरक्षणार्थमतो रणप्रियः ।

६८५ पूर्णः - सकलैः कामैः सकलाभिः शक्तिभिश्च सम्पन्न इति पूर्णः ।

६८६ पूरयिता - न केवलं पूर्ण एव; पूरयिता च सर्वेषां सम्पद्धिः ।

६८७ पुण्यः - स्मृतिमात्रेण क्षपयतीति पुण्यः ।

६८८ पुण्यकीर्तिः - पुण्या कीर्तिरस्य यतः पुण्यमावहत्यस्य कीर्तिर्नृणामिति पुण्यकीर्तिः ।

६८९ अनामयः - आन्तरैर्बाह्यैर्व्याधिभिः कर्मजैर्न पीड्यत इति अनामयः ।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥७४॥

६९० मनोजवः - मनसो वेग इव वेगोऽस्य सर्वं गतत्वात् मनोजवः ।

६९१ तीर्थकरः - चतुर्दशविद्यानां बाह्यविद्यासमयानां च प्रणेता प्रवक्ता चेति तीर्थकरः ।

६९२ वसुरेता - वसु सुवर्णं रेतोऽस्येति वसुरेताः । हयग्रीवरूपेण मधुकैटभौ हत्वा विरिञ्चाय सर्गादौ सर्वाः श्रुतीरन्याश्च विद्या उपदिशन् वेदबाह्या विद्याः सुरवैरिणां वञ्चनाय चोपदिदेशेति पौराणिकाः कथयन्ति ।

६९३ वसुप्रदः - ददाति वसु धनं प्रकर्षेण साक्षाद्धनाध्यक्षोऽयम्, तत्प्रसादाद् धनाध्यक्ष इति वसुप्रदः ।

६९४ वसुप्रदः - वसु प्रकृष्टं मोक्षाख्यं फलं भक्तेभ्यः प्रददातीति द्वितीयो वसुंप्रदः । सुरारीणां वसूनि प्रकर्षेण खण्डयन् वा वसुप्रदः ।

६९५ वासुदेवः - वसुदेवस्यापत्यं वासुदेवः ।

६९६ वसुः - वसन्ति भूतानि तत्र तेष्वयमपि वसतीति वसुः ।

६९७ वसुमनाः - अविशेषेण सर्वेषु विषयेषु वसतीति वसु, तादृशं मनोऽस्येति वसुमनाः ।

६९८ हविः - 'ब्रह्मार्पणं ब्रह्म हविः' इति भगवद्वचनात् हविः ।

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥७५॥

६९९ सद्गतिः - ब्रह्मास्तीति ये विदुस्ते सन्तः तैः प्राप्यत इति सद्गतिः, सती गतिर्बुद्धिः समुत्कृष्टा अस्येति वा सद्गतिः ।

७०० सत्कृतिः - सती कृतिः जगद्रक्षणलक्षणा अस्य यस्मात्तेन सत्कृतिः ।

७०१ सत्ता - सजातीयविजातीयस्वगतभेद- रहिता अनुभूतिः सत्ता ।

७०२ सद्भूतिः - सन्नेव परमात्मा चिदात्मकः अबाधाद् भासमानत्वाच्च सद्भूतिः नान्यः, प्रतीतेर्बाध्यमानत्वाच्च सन्नाप्यसत् । श्रौतो यौक्तिको वा बाधः प्रपञ्चस्य विवक्षितः ।

७०३ सत्परायणः - सतां तत्त्वविदां परं प्रकृष्टमयनमिति सत्परायणम् ।

७०४ शूरसेनः - हनूमत्प्रमुखाः सैनिकाः शौर्य- शालिनो यस्यां सेनायां सा शूरसेना यस्य स शूरसेनः ।

७०५ यदुश्रेष्ठः - यदूनां प्रधानत्वात् यदुश्रेष्ठः ।

७०६ सन्निवासः - सतां विदुषामाश्रयः सन्निवासः ।

७०७ सुयामुनः - शोभना यामुना यमुनासम्बन्धिनो देवकीवसुदेवनन्दयशोदाबलभद्र- परिवेष्टारोऽस्येति सुभद्रादयः सुयामुनः; गोपवेषधरा यामुनाः परिवेष्टारः पद्मासनादयः शोभना अस्येति वा सुयामुनः ।

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥७६॥

७०८ भूतावासः - भूतान्यत्राभिमुख्येन वसन्तीति भूतावासः ।

७०९ वासुदेवः - जगदाच्छादयति माययेति वासुः, स एव देव इति वासुदेवः ।

७१० सर्वासुनिलयः - सर्व एवासवः प्राणा जीवात्मके यस्मिन्नाश्रये निलीयन्ते स सर्वासुनिलयः ।

७११ अनलः - अलम्पर्याप्तिः शक्तिसम्पदां नास्य विद्यत इति अनलः ।

७१२ दर्पहा - धर्मविरुद्धे पथि तिष्ठतां दर्पं हन्ति इति दर्पहा ।

७१३ दर्पदः - धर्मवर्त्मनि वर्तमानानां दर्पं ददातीति दर्पदः ।

७१४ दृप्तः - स्वात्मामृतरसास्वादनात् नित्यप्रमुदितो दृप्तः ।

७१५ दुर्धरः - न शक्या धारणा यस्य प्रणिधानादिषु सर्वोपाधिविनिर्मुक्तत्वात् तथापि तत्प्रसादतः; कैश्चिद् दुःखेन धार्यते हृदये जन्मान्तरसहस्त्रेष भावनायोगात्, तस्माद् दुर्धरः ।

७१६ अपराजितः - न आन्तरैः रागादिभिर्बाह्यैरपि दानवादिभिः शत्रुभिः पराजित इति अपराजितः ।

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥७७॥

७१७ विश्वमूर्तिः - विश्वं मूर्तिरस्य सर्वात्मकत्वाद् इति विश्वमूर्तिः ।

७१८ महामूर्तिः - शेषपर्यङ्कशायिनोऽस्य महती मूर्तिरिति महामूर्तिः ।

७१९ दीप्तमूर्तिः - दीप्ता ज्ञानमयी मूर्तिर्यस्येति स्वेच्छया गृहीता तैजसी मूर्तिर्दीप्ता अस्येति वा दीप्तमूर्तिः ।

७२० अमूर्तिमान् - कर्मनिबन्धना मूर्तिरस्य न विद्यत इति अमूर्तिमान् ।

७२१ अनेकमूर्तिः - अवतारेषु स्वेच्छया लोकानामुपकारिणीर्बह्वीर्मूर्तीर्भजत अनेकमूर्तिः ।

७२२ अव्यक्तः - यद्यप्यनेकमूर्तित्वमस्य, तथाप्ययमीदृश एवेति न व्यज्यत इति अव्यक्तः ।

७२३ शतमूर्तिः - नानाविकल्पजा मूर्तयः संविदाकृतेः सन्तीति शतमूर्तिः ।

७२४ शताननः - विश्वादिमूर्तित्वं यतोऽत एव शताननः।

एको नैकः सवः कः किं यत्तत् पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥७८॥

७२५ एकः - परमार्थतः सजातीयविजातीय- स्वगतभेदविनिर्मुक्तत्वात् एकः ।

७२६ नैकः - मायया बहुरूपत्वात् नैकः ।

७२७ सवः - सोमो यत्राभिसूयते सोऽध्वरः सवः ।

७२८ कः - कशब्दः सुखवाचकः, तेन स्तूयत इति कः ।

७२९ किम् - सर्वपुरुषार्थरूपत्वाद् ब्रह्मैव विचार्यमिति ब्रह्म किम् ।

७३० यत् - यच्छब्देन स्वतः सिद्धवस्तूद्देश- वाचिना ब्रह्म निर्दिश्यत इति ब्रह्म यत् ।

७३१ तत् - तनोतीति ब्रह्म तत् ।

७३२ पदमनुत्तमम् - पद्यते गम्यते मुमुक्षुभिरिति पदम् । यस्मादुत्कृष्टं नास्ति तद् अनुत्तमम् । सविशेषणमेकं नाम पदमनुत्तमम् इति ।

७३३ लोकबन्धुः - आधारभूतेऽस्मिन् सकला लोका बध्यन्त इति लोकानां बन्धुः लोकबन्धुः, लोकानां जनकत्वाज्जनकोपमो बन्धुर्नास्तीति वा, लोकानां बन्धुकृत्यं हिताहितोपदेशं श्रुतिस्मृतिलक्षणं कृतवानिति वा लोकबन्धुः ।

७३४ लोकनाथः - लोकैर्नाथ्यते याच्यते लोकानुपतपति आशास्ते लोकानामीष्ट इति वा लोकनाथः ।

७३५ माधवः - मधुकुले जातत्वात् माधवः ।

७३६ भक्तवत्सलः - भक्तस्नेहवान् भक्तवत्सलः ।

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥७९॥

७३७ सुवर्णवर्णः - सुवर्णस्येव वर्णोऽस्येति सुवर्णवर्णः ।

७३८ हेमाङ्गः - हेमेवाङ्गं वपुरस्येति हेमाङ्गः ।

७३९ वराङ्गः - वराणि शोभनान्यङ्गान्यस्येति वराङ्गः ।

७४० चन्दनाङ्गदी - चन्दनैराह्लादनैरङ्गदैः केयूरैर्भूषित इति चन्दनाङ्गदी ।

७४१ वीरहा - धर्मत्राणाय वीरान् असुरमुख्यान् हन्तीति वीरहा ।

७४२ विषमः - समो नास्य विद्यते सर्व- विलक्षणत्वादिति विषमः ।

७४३ शून्यः - सर्वविशेषरहितत्वात् शून्यवत् शून्यः ।

७४४ घृताशी - घृता विगलिता आशिषः प्रार्थना अस्येति घृताशीः ।

७४५ अचलः - न स्वरूपान्न सामर्थ्यान्न च ज्ञानादिकाद्गुणात् चलनं विद्यतेऽस्येति अचलः ।

७४६ चलः - वायुरूपेण चलतीति चलः ।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥८०॥

७४७ अमानी - अनात्मवस्तुष्वात्माभिमानो नास्त्यस्य स्वच्छसंवेदनाकृतेरिति अमानी ।

७४८ मानदः - स्वमायया सर्वेषामनात्मस्वात्माभिमानं ददाति, भक्तानां सत्कारं मानं ददातीति, तत्त्वविदामनात्म- स्वात्माभिमानं खण्डयतीति वा मानदः ।

७४९ मान्यः - सर्वैर्माननीयः पूजनीयः सर्वेश्वरत्वादिति मान्यः ।

७५० लोकस्वामी - चतुर्दशानां लोकानामीश्वरत्वात् लोकस्वामी ।

७५१ त्रिलोकधृक् - त्रीन् लोकान् धारयतीति त्रिलोकधृक् ।

७५२ सुमेधाः - शोभना मेधा प्रज्ञास्येति सुमेधाः । 'नित्यमसिच् प्रजामेधयोः ' (५।४।१२२) इति समासान्तोऽसिच् ।

७५३ मेधजः - मेधेऽध्वरे जायत इति मेधजः ।

७५४ धन्यः - कृतार्थो धन्यः ।

७५५ सत्यमेधाः - सत्या अवितथा मेधा अस्येति सत्यमेधाः ।

७५६ धराधरः - अंशैरशेषैः शेषाद्यैरशेषां धरां धारयन् धराधरः ।

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥८१॥

७५७ तेजोवृषः - तेजसामम्भसां सर्वदा आदित्यरूपेण वर्षणात् तेजोवृषः ।

७५८ द्युतिधरः - द्युतिमङ्गगतां कान्तिं धारयन् द्युतिधरः ।

७५९ सर्वशस्त्रभृतां वरः - सर्वशस्त्रभृतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।

७६० प्रग्रहः - भक्तैरुपहृतं पत्रपुष्पादिकं प्रगृह्णातीति प्रग्रहः, धावतो विषयारण्ये दुर्दान्तेन्द्रियवाजिनः तत्प्रसादेन रश्मिनेव बध्नातीति वा प्रग्रहवत् प्रग्रहः, 'रश्मौ च' (३।३५३) इति पाणिनिवचनात् प्रग्रहशब्दस्य साधुत्वम् ।

७६१ निग्रहः - स्ववशेन सर्वं निगृह्णातीति निग्रहः ।

७६२ व्यग्रः - विगतमग्रमन्तो विनाशोऽस्येति व्यग्रः; भक्तानामभीष्टप्रदानेषु व्यग्र इति वा।

७६३ नैकशृङ्गः - चतुः शृङ्गो नैकशृङ्गः ।

७६४ गदाग्रजः - निगदेन मन्त्रेणाग्रे जायत इति निशब्दलोपं कृत्वा गदाग्रजः, यद्वा गदो नाम श्रीवासुदेवावरजः, तस्मादग्रे जायत इति गदाग्रजः ।

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥८२॥

७६५ चतुर्मूर्तिः - चतस्त्रो मूर्तयो विराट्सूत्राव्याकृततुरीयात्मानोऽस्येति चतुर्मूर्तिः, सिता रक्ता पीता कृष्णा चेति चतस्रो मूर्तयोऽस्येति वा।

७६६ चतुर्बाहुः - चत्वारो बाहवोऽस्येति चतुर्बाहुः इति नाम वासुदेवे रूढम् ।

७६७ चतुर्व्यूहः - बह्वृचोपनिषदुक्ताश्चत्वारः पुरुषा व्यूहा अस्येति चतुर्व्यूहः ।

७६८ चतुर्गतिः - आश्रमाणां वर्णानां चतुर्णां यथोक्तकारिणां गतिः चतुर्गतिः ।

७६९ चतुरात्मा - रागद्वेषादिरहितत्वात् चतुर आत्मा मनोऽस्येति, मनोबुद्धयहङ्कारचित्ताख्यान्तःकरणचतुष्टयात्मकत्वाद् वा चतुरात्मा।

७७० चतुर्भावः - धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयं भवत्युत्पद्यते अस्मादिति चतुर्भावः ।

७७१ चतुर्वेदवित् - यथावद् वेत्ति वेदानामर्थमिति चतुर्वेदवित् ।

७७२ एकपात् - चतुर्णां एकः पादोऽस्येति एकपात् ।

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥८३॥

७७३ समावर्तः - संसारचक्रस्य सम्यगावर्तक इति समावर्तः ।

७७४ अनिवृत्तात्मा/निवृत्तात्मा - सर्वत्र वर्तमानत्वात् न निवृत्त आत्मा कुतोऽपीति अनिवृत्तात्मा निवृत्त आत्मा मनो विषयेभ्योऽस्येति वा निवृत्तात्मा ।

७७५ दुर्जयः - जेतुं न शक्यत इति दुर्जयः ।

७७६ दुरतिक्रमः - भयहेतुत्वादस्याज्ञां नातिक्रामन्तीति दुरतिक्रमः ।

७७७ दुर्लभः - दुर्लभया भक्त्या लभ्यत्वात् दुर्लभः ।

७७८ दुर्गमः - दुःखेन गम्यते ज्ञायत इति दुर्गमः ।

७७९ दुर्गः - अन्तरायप्रतिहतैर्दुःखादवाप्यत इति दुर्गः ।

७८० दुरावासः - दुःखेनावास्यते चित्ते योगिभिः समाधाविति दुरावासः ।

७८१ दुरारिहा - दुरारिणो दानवादयस्तान् हन्तीति दुरारिहा ।

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥८४॥

७८२ शुभाङ्गः - शोभनैरङ्गैर्थ्येयत्वात् शुभाङ्गः ।

७८३ लोकसारङ्गः - लोकानां सारं सारङ्गवद् भृङ्गवद् गृह्णातीति लोकसारङ्गः । लोकसारः प्रणवः, तेन प्रतिपत्तव्य इति वा, पृषोदरादित्वात् साधुत्वम् ।

७८४ सुतन्तुः - शोभनस्तन्तुर्विस्तीर्णः प्रपञ्चोऽस्येति सुतन्तुः ।

७८५ तन्तुवर्धनः - तमेव तन्तुं वर्धयति छेदयतीति वा तन्तुवर्धनः ।

७८६ इन्द्रकर्मा - इन्द्रस्य कर्मेव कर्मास्येति इन्द्रकर्मा, ऐश्वर्यकर्मेत्यर्थः ।

७८७ महाकर्मा - महान्ति वियदादीनि भूतानि कर्माणि कार्याण्यस्येति महाकर्मा ।

७८८ कृतकर्मा - कृतमेव सर्वं कृतार्थत्वात्, न कर्तव्यं किञ्चिदपि कर्मास्य विद्यत इति कृतकर्मा । धर्मात्मकं कर्म कृतवानिति वा ।

७८९ कृतागमः - कृतो वेदात्मक आगमो येनेति कृतागमः ।

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥८५॥

७९० उद्भवः - उत्कृष्टं भवं जन्म स्वेच्छया भजति इति उद्गतमपगतं जन्मास्य सर्वकारणत्वादिति वा उद्भवः ।

७९१ सुन्दरः - विश्वातिशायिसौभाग्यशालित्वात् सुन्दरः ।

७९२ सुन्दः - सुष्ठु उनत्तीति सुन्दः । उन्दी क्लेदने इति धातोः पचाद्यच्; आर्द्रीभावस्य वाचकः करुणाकर इत्यर्थः पृषोदरादित्वात् पररूपत्वम्।

७९३ रत्ननाभः - रत्नशब्देन शोभा लक्ष्यते; रत्नवत् सुन्दरा नाभिरस्येति रत्ननाभः ।

७९४ सुलोचनः - शोभनं लोचनं नयनं ज्ञानं वा अस्येति सुलोचनः ।

७९५ अर्कः - ब्रह्मादिभिः पूज्यतमैरपि अर्चनीयत्वात् अर्कः ।

७९६ वाजसनः - वाजमन्नमर्थिनां सनोति ददातीति वाजसनः ।

७९७ शृङ्गी - प्रलयाम्भसि शृङ्गवन्मत्स्यविशेषरूपः शृङ्गी; मत्वर्थीयोऽतिशायने इनिप्रत्ययः ।

७९८ जयन्तः - अरीन् अतिशयेन जयति, जयहेतुर्वा जयन्तः ।

७९९ सर्वविज्जयी - सर्वविषयं ज्ञानमस्येति सर्ववित्; आभ्यन्तरान् रागादीन् बाह्यान् हिरण्याक्षादींश्च दुर्जयान् जेतुं शीलमस्येति जयी; तच्छीलाधिकारे 'जिदृक्षि' (पा० सू० ३ । २ । १५७) इत्यादिपाणिनीयवचनादिनिप्रत्ययः सर्वविच्चासौ जयी चेति सर्वविज्जयी इत्येकं नाम ।

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥८६॥

८०० सुवर्णबिन्दुः - बिन्दवोऽवयवाः सुवर्णसदृशा अस्येति सुवर्णबिन्दुः । शोभनो वर्णोऽक्षरं बिन्दुश्च यस्मिन्मन्त्रे तन्मन्त्रात्मा वा सुवर्णबिन्दुः ।

८०१ अक्षोभ्यः - रागद्वेषादिभिः शब्दादिविषयैश्च त्रिदशारिभिश्च न क्षोभ्यत इति अक्षोभ्यः ।

८०२ सर्ववागीश्वरेश्वरः - सर्वेषां वागीश्वराणां ब्रह्मादीनामपीश्वरः सर्ववागीश्वरेश्वरः ।

८०३ महाह्रदः - अवगाह्य तदानन्दं विश्रम्य सुखमासते योगिन इति महाह्रद इव महाह्रदः ।

८०४ महागर्तः - गर्तवदस्य माया महती दुरत्ययेति महागर्तः । गर्तशब्दो रथपर्यायो नैरुक्तैरुक्तः, तस्मान्महारथो महागर्तः; महारथत्वमस्य प्रसिद्धं भारतादिषु ।

८०५ महाभूतः - कालत्रयानवच्छिन्नस्वरूपत्वात् महाभूतः ।

८०६ महानिधिः - सर्वभूतानि अस्मिन्निधीयन्त इति निधिः महांश्चासौ निधिश्चेति महानिधिः

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥८७॥

८०७ कुमुदः - कुं धरणिं भारावतरणं कुर्वन् मोदयतीति कुमुदः । मुदिरत्रान्तर्भावितणिजर्थः ।

८०८ कुन्दरः - कुन्दपुष्पतुल्यानि शुद्धानि फलानि राति ददाति, लात्यादत्ते इति वा कुन्दरः

८०९ कुन्दः - कुन्दोपसुन्दराङ्गत्वात् स्वच्छतया स्फटिकनिर्मलः कुन्दः; कुं पृथ्वीं कश्यपायादादिति वा कुन्दः । कुं पृथ्वीं द्यति खण्डयतीति वा कुन्दः कुशब्देन पृथ्वीश्वरा लक्ष्यन्ते ।

८१० पर्जन्यः - पर्जन्यवदाध्यात्मिकादितापत्रयं शमयति, सर्वान् कामानभिवर्षतीति वा पर्जन्यः ।

८११ पावनः - स्मृतिमात्रेण पुनातीति पावनः ।

८१२ अनिलः - इलति प्रेरणं करोतीति इलः, तद्रहितत्वात् अनिलः इलति स्वपिति इत्यज्ञ इलः तद्विपरीतो नित्यप्रबुद्धस्वरूपत्वादिति वा, अथवा निलतेर्गहनार्थात् कप्रत्ययान्ताद्रूपम्, अगहनः अनिलः, भक्तेभ्यः सुलभ इति ।

८१३ अमृताशः - स्वात्मामृतमश्नातीति अमृताशः । मथितममृतं सुरान् पाययित्वा स्वयं चानातीति वा अमृताशः । अमृता अनश्वरफलत्वादाशा वाञ्छा अस्येति वा ।

८१४ अमृतवपुः - मृतं मरणम्, तद्रहितं वपुरस्येति अमृतवपुः ।

८१५ सर्वज्ञः - सर्वं जानातीति सर्वज्ञः ।

८१६ सर्वतोमुखः - 'सर्वतोऽक्षिशिरोमुखम् ' (गीता १३।१३) इति भगवद्वचनात् सर्वतोमुखः ।

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥८८॥

८१७ सुलभ - पत्रपुष्पफलादिभिर्भक्तिमात्रसमर्पितैः सुखेन लभ्यत इति सुलभः ।

८१८ सुव्रतः - शोभनं व्रतयति भुङ्क्ते भोजनान्निवर्तत इति वा सुव्रतः ।

८१९ सिद्धः - अनन्याधीनसिद्धित्वात् सिद्धः ।

८२० शत्रुजित् - सुरशत्रव एवास्य शत्रवः, तान् जयतीति शत्रुजित् ।

८२१ शत्रुतापनः - सुरशत्रूणां तापनः शत्रुतापनः ।

८२२ न्यग्रोधः - न्यक् अर्वाक् रोहति सर्वेषामुपरिवर्तत इति न्यग्रोधः पृषो दरादित्वाद् हकारस्य धकारादेशः सर्वाणि भूतानि न्यक्कृत्य निजमायां वृणोति निरुणद्धीति वा ।

८२३ उदुम्बरः - अम्बरादुद्गतः कारणत्वेनेति उदुम्बरः; पृषोदरादित्वादेवोकारादेशः यद्वा उदुम्बरमन्नाद्यम्; तेन तदात्मना विश्वं पोषयन् उदुम्बरः। न्यग्रोधोदुम्बर इत्यत्र विसर्गलोपे सन्धिरार्षः ।

८२४ अश्वत्थः - श्वोऽपि न स्थातेति अश्वत्थः । पृषोदरादित्वादेव तकारादेशः ।

८२५ चाणूरान्ध्रनिषूदनः - चाणूरनामानमन्ध्रं निषूदितवानिति चाणूरान्ध्रनिषूदनः ।

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥८९॥

८२६ सहस्रार्चिः - सहस्राणि अनन्तानि अर्चीषि यस्य स सहस्रार्चिः ।|

८२७ सप्तजिह्वः - सप्त जिह्वा अस्य सन्तीति सप्तजिह्वः ।

८२८ सप्तैधाः - सप्त एधांसि दीप्तयोऽस्येति सप्तैधाः ।

८२९ सप्तवाहनः - सप्त अश्वा वाहनान्यस्येति सप्तवाहनः ।

८३० अमूर्तिः - मूर्तिर्घनरूपं धारणसमर्थं चराचरलक्षणम् तद्रहित इति अमूर्तिः । अथवा देहसंस्थानलक्षणा मूच्छिताङ्गावयवा मूर्तिः, तद्रहित इति अमूर्तिः ।

८३१ अनघः - अघं दुःखं पापं चास्य न विद्यत इति अनघः ।

८३२ अचिन्त्यः - प्रमात्रादिसाक्षित्वेन सर्वप्रमाणागोचरत्वात् अचिन्त्यः; अयमीदृश इति विश्वप्रपञ्चविलक्षणत्वेन चिन्तयितुमशक्यत्वाद् वा अचिन्त्यः ।

८३३ भयकृत् - असन्मार्गवर्तिनां भयं करोति, भक्तानां भयं कृन्तति कृणोतीति वा भयकृत् ।

८३४ भयनाशनः - वर्णाश्रमाचारवतां भयं नाशयतीति भयनाशनः ।

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥९०॥

८३५ अणुः - सौक्ष्म्यातिशयशालित्वाद् अणुः ।

८३६ बृहत् - बृहत्त्वाद् बृंहणत्वाच्च ब्रह्म बृहत् ।

८३७ कृशः - 'अस्थूलम्' (बृ० उ० ३।८।८) इत्यादिना द्रव्यत्वप्रतिषेधात् कृशः ।

८३८ स्थूलः - स्थूलः इति उपचर्यते सर्वात्मत्वात् ।

८३९ गुणभृत् - सत्त्वरजस्तमसां सृष्टिस्थितिलयकर्मस्वधिष्ठातृत्वात् गुणभृत् ।

८४० निर्गुणः - वस्तुतो गुणाभावात् निर्गुणः ।

८४१ महान् - शब्दादिगुणरहितत्वात् निरतिशयसूक्ष्मत्वात् नित्यशुद्धसर्वगतत्वादिना च प्रतिबन्धकं धर्मजातं तर्कतोऽपि यतो वक्तुं न शक्यम् अत एव महान् ।

८४२ अधृतः - पृथिव्यादीनां धारकाणामपि धारकत्वान्न केनचिद् ध्रियत इति अधृतः ।

८४३ स्वधृतः - यद्येवमयं केन इत्याशङ्कयाह – स्वेनैव आत्मना धार्यते इति स्वधृतः ।

८४४ स्वास्यः - शोभनं पद्मोदरतलताम्रमभिरूपतममस्यास्यमिति स्वास्यः ।

८४५ प्राग्वंशः - महान् शब्दराशिः तस्य मुखान्निर्गतः पुरुषार्थोपदेशार्थमिति वा स्वास्यः ।

८४६ वंशवर्धनः - अन्यस्य वंशिनो वंशाः पाश्चात्त्याः; अस्य वंशः प्रपञ्चः प्रागेव, न पाश्चात्त्य इति प्राग्वंशः । वंशं प्रपञ्चं वर्धयन् छेदयन् वा वंशवर्धनः ।

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥९१॥

८४७ भारभृत् - अनन्तादिरूपेण भुवो भारं बिभ्रत् भारभृत् ।

८४८ कथितः - वेदादिभिरयमेव कथितः, सर्वैर्वेदैः कथित इति वा ।

८४९ योगी - योगो ज्ञानम्, तेनैव गम्यत्वात् योगी; योगः समाधिः स हि स्वात्मनि सर्वदा समाधत्ते स्वमात्मानम्, तेन वा योगी ।

८५० योगीशः - अन्ये योगिनो योगान्तरायैर्हन्यन्ते स्वरूपात् प्रमाद्यन्ति; अयं तु तद्रहितत्वात्तेषामीशः योगीशः ।

८५१ सर्वकामदः - सर्वान् कामान् सदा ददातीति सर्वकामदः ।

८५२ आश्रमः - आश्रमवत् सर्वेषां संसारारण्ये भ्रमतां विश्रमस्थानत्वात् आश्रमः ।

८५३ श्रमणः - अविवेकिनः सर्वान् सन्तापयतीति श्रमणः ।

८५४ क्षामः - क्षामाः क्षीणाः सर्वाः प्रजाः करोतीति क्षामः, 'तत् करोति तदाचष्टे' ( चुरादिगणसूत्रम् ) इति णिचि पचाद्यचि कृते सम्पन्नः क्षाम इति ।

८५५ सुपर्णः - शोभनानि पर्णानिच्छन्दांसि संसारतरुरूपिणोऽस्येति सुपर्णः 'छन्दांसि यस्य पर्णानि ' (गीता १५।१) इति भगवद्वचनात् ।

८५६ वायुवाहनः - वायुर्वहति यद्भीत्या भूतानीति स वायुवाहनः ।

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥९२॥

८५७ धनुर्धरः - श्रीमान् रामो महद्धनुर्धारयामासेति धनुर्धरः ।

८५८ धनुर्वेदः - स एव दाशरथिर्धनुर्वेदं वेत्तीति धनुर्वेदः ।

८५९ दण्डः - दमनं दमयतां दण्डः ।

८६० दमयिता - वैवस्वतनरेन्द्रादिरूपेण प्रजा दमयतीति दमयिता ।

८६१ दमः - दमः दम्येषु दण्डकार्यं फलम्, तच्च स एवेति दमः ।

८६२ अपराजितः - शत्रुभिर्न पराजितः अपराजितः ।

८६३ सर्वसहः - सर्वकर्मसु समर्थ इति, सर्वान् शत्रून् सहत इति वा सर्वसहः ।

८६४ नियन्ता - सर्वान् स्वेषु स्वेषु कृत्येषु व्यवस्थापयतीति नियन्ता ।

८६५ अनियमः (नियमः) - न नियमो नियतिस्तस्य विद्यत अनियमः, सर्वनियन्तुनियन्त्रन्तराभावात् ।

८६६ अयमः (यमः) - नास्य विद्यते यमो मृत्युरिति यमनियमौ अयमः, अथवा, योगाङ्गे तद्गम्यत्वात्स एव नियमः यमः ।

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥९३॥

८६७ सत्त्ववान् - शौर्यवीर्यादिकं सत्त्वमस्येति सत्त्ववान् ।

८६८ सात्त्विकः - सत्त्वे गुणे प्राधान्येन स्थित इति सात्त्विकः ।

८६९ सत्यः - सत्सु साधुत्वात् सत्यः ।

८७० सत्यधर्मपरायणः - सत्ये यथाभूतार्थकथने धर्मे च चोदनालक्षणे नियत इति सत्यधर्मपरायणः ।

८७१ अभिप्रायः - अभिप्रेयते पुरुषार्थकाङ्क्षिभिः आभिमुख्येन प्रलयेऽस्मिन् प्रैति जगदिति वा अभिप्रायः ।

८७२ प्रियार्हः - प्रियाणि इष्टान्यर्हतीति प्रियार्हः ।

८७३ अर्हः - स्वागतासनप्रशंसार्घ्यपाद्यस्तुतिनमस्कारादिभिः पूजासाधनैः पूजनीय इति अर्हः ।

८७४ प्रियकृत् - स्तुत्यादिभिर्भजतां प्रियं करोतीति प्रियकृत् ।

८७५ प्रीतिवर्धनः - तेषामेव प्रीतिं प्रीतिवर्धनः ।

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥९४॥

८७६ विहायसगतिः - विहायसं गतिराश्रयोऽस्येति विहायसगतिः, विष्णुपदम् आदित्यो वा ।

८७७ ज्योतिः - स्वत एव द्योतत इति ज्योतिः ।

८७८ सुरुचिः - शोभना रुचिर्दीप्तिरिच्छा वा अस्येति सुरुचिः ।

८७९ हुतभुक् - समस्तदेवतोद्देशेन प्रवृत्तेष्वपि कर्मसु हुतं भुङ्क्ते भुनक्तीति वा हुतभुक् ।

८८० विभुः - सर्वत्र वर्तमानत्वात्, त्रयाणां लोकानां प्रभुत्वाद् वा विभुः ।

८८१ रविः - रसानादत्त इति रविः आदित्यात्मा ।

८८२ विरोचनः - विविधं रोचत इति विरोचनः ।

८८३ सूर्यः - सूते श्रियमिति सूर्योऽग्निर्वा सूर्यः । सूतेः सुवतेर्वा सूर्यशब्दो निपात्यते 'राजसूयसूर्य०' (पा० सू० ३।१।११४) इति पाणिनिवचनात् सूर्यः ।

८८४ सविता - सर्वस्य जगतः प्रसविता सविता ।

८८५ रविलोचनः - रविर्लोचनं चक्षुरस्येति रविलोचनः ।

अनन्तो हुतभुग् भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥९५॥

८८६ अनन्तः - नित्यत्वात् सर्वगतत्वाद् देशकालपरिच्छेदाभावात् अनन्तः शेषरूपो वा ।

८८७ हुतभुक् - हुतं भुनक्तीति हुतभुक् ।

८८८ भोक्ता - प्रकृतिं भोग्याम् अचेतनां भुङ्क्ते इति, जगत् पालयतीति वा भोक्ता ।

८८९ सुखदः [असुखदः] - भक्तानां सुखं मोक्षलक्षणं ददातीति सुखदः । असुखं द्यति खण्डयतीति वा असुखदः ।

८९० नैकजः - धर्मगुप्तये असकृज्जायमानत्वात् नैकजः ।

८९१ अग्रजः - अग्रे जायत इति अग्रजः ।

८९२ अनिर्विण्णः - अवाप्तसर्वकामत्वादप्राप्तिहेत्वभावान्निर्वेदोऽस्य अनिर्विण्णः ।

८९३ सदामर्षी - नास्तीति सतः साधून् आभिमुख्येन मृष्यते क्षमत इति सदामर्षी ।

८९४ लोकाधिष्ठानम् - तमनाधारमाधारमधिष्ठाय त्रयो लोकास्तिष्ठन्ति इति लोकाधिष्ठानं ब्रह्म ।

८९५ अद्भुतः - अद्भुतत्वात् अद्भुतः ।

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥९६॥

८९६ सनात् - सनात् इति निपातश्चिरार्थवचनः । कालश्च परस्यैव विकल्पना कापि ।

८९७ सनातनतमः - सर्वकारणत्वाद विरिञ्चयादीना- मपि सनातनानामतिशयेन सनातनत्वात् सनातनतमः ।

८९८ कपिलः - बडवानलस्य कपिलो वर्ण इति तद्रूपी कपिलः ।

८९९ कपिः - कं जलं रश्मिभिः पिबन् कपिः सूर्यः; कपिर्वराहो वा, 'कपिर्वराहः श्रेष्ठश्च' इति वचनात् ।

९०० अप्ययः - प्रलये अस्मिन्नपियन्ति जगन्तीति अप्ययः ।

९०१ स्वस्तिदः - भक्तानां स्वस्ति मङ्गलं ददातीति स्वस्तिदः ।

९०२ स्वस्तिकृत् - तदेव करोतीति स्वस्तिकृत् ।

९०३ स्वस्ति - मङ्गलस्वरूपमात्मीयं परमानन्दलक्षणं स्वस्ति ।

९०४ स्वस्तिभुक् - तदेव भुङ्क्त इति स्वस्तिभुक्, भक्तानां मङ्गलं स्वस्ति भुनक्तीति वा स्वस्तिभुक् ।

९०५ स्वस्तिदक्षिणः - स्वस्तिरूपेण दक्षते वर्धते, स्वस्ति दातुं समर्थ इति वा स्वस्तिदक्षिणः ।

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥९७॥

९०६ अरौद्रः - कर्म रौद्रम्, रागश्च रौद्रः, कोपश्च रौद्रः; यस्य रौद्रत्रयं नास्ति | अवाप्तसर्वकामत्वेन रागद्वेषादेरभावात् स अरौद्रः ।

९०७ कुण्डली - शेषरूपभाक् कुण्डली सहस्त्रांशुमण्डलोपमकुण्डलधारणाद् वा; यद्वा सांख्ययोगात्मके कुण्डले मकराकारे अस्य स्त इति कुण्डली ।

९०८ चक्री - समस्तलोकरक्षार्थ स्तत्त्वात्मकं सुदर्शनाख्यं चक्रं धत्त इति चक्री ।

९०९ विक्रमी - विक्रमः पादविक्षेपः, शौर्यं वा; द्वयं चाशेषपुरुषेभ्यो विलक्षणमस्येति विक्रमी ।

९१० ऊर्जितशासनः - श्रुतिस्मृतिलक्षणमूर्जितं शासनमस्येति ऊर्जितशासनः ।

९११ शब्दातिगः - शब्दप्रवृत्तिहेतूनां जात्यादीनामसम्भवात् शब्देन वक्तुमशक्यत्वात् शब्दातिगः ।

९१२ शब्दसहः - सर्वे वेदाः तात्पर्येण तमेव वदन्तीति शब्दसहः ।

९१३ शिशिरः - तापत्रयाभितप्तानां विश्राम- स्थानत्वात् शिशिरः ।

९१४ शर्वरीकरः - संसारिणामात्मा शर्वरीव शर्वरी; ज्ञानिनां पुनः संसारः शर्वरी; तामुभयेषां करोतीति शर्वरीकरः ।

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥९८॥

९१५ अक्रूरः - क्रौर्यं नाम मनोधर्मः प्रकोपजः आन्तरः सन्तापः साभिनिवेशः, अवाप्तसमस्तकामत्वात् कामाभावादेव कोपाभावः; तस्मात् क्रौर्यमस्य नास्तीति अक्रूरः ।

९१६ पेशलः - कर्मणा मनसा वाचा वपुषा च शोभनत्वात् पेशलः ।

९१७ दक्षः - प्रवृद्धः शक्तः शीघ्रकारी च दक्षः त्रयं चैतत् परस्मिन्नियतमिति दक्षः ।

९१८ दक्षिणः - दक्षिणशब्दस्यापि दक्ष एवार्थः, पुनरुक्तिदोषो नास्ति, शब्दभेदात्; अथवा दक्षते गच्छति, हिनस्तीति वा दक्षिणः, 'दक्ष गतिहिंसनयोः ' इति धातुपाठात् ।

९१९ क्षमिणां वरः - क्षमावतां योगिनां च पृथिव्यादीनां भारधारकाणां च श्रेष्ठ इति क्षमिणां वरः । ब्रह्माण्डमखिलं वहन् पृथिवीव भारेण नार्दित इति पृथिव्या अपि वरो वा क्षमिणः शक्ताः, अयं तु सर्वशक्तिमत्त्वात् सकलाः क्रियाः कर्तुं क्षमत इति वा क्षमिणां वरः ।

९२० विद्वत्तमः - निरस्तातिशयं ज्ञानं सर्वदा सर्वगोचरमस्यास्ति विद्वत्तमः ।

९२१ वीतभयः - नेतरेषामिति वीतं विगतं भयं सांसारिकं संसारलक्षणं वा अस्येति वीतभयः, सर्वेश्वरत्वान्नित्यमुक्तत्वाच्च ।

९२२ पुण्यश्रवणकीर्तनः - पुण्यं पुण्यकरं श्रवणं कीर्तनं चास्येति पुण्यश्रवणकीर्तनः ।

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥९९॥

९२३ उत्तारणः - संसारसागरादुत्तारयतीति उत्तारणः ।

९२४ दुष्कृतिहा - दुष्कृतीः पापसंज्ञिता हन्तीति दुष्कृतिहा, ये पापकारिणस्तान् हन्तीति वा दुष्कृतिहा ।

९२५ पुण्यः - स्मरणादि कुर्वतां सर्वेषां पुण्यं करोतीति, सर्वेषां श्रुतिस्मृतिलक्षणया वाचा पुण्यमाचष्ट इति वा पुण्यः ।

९२६ दुःस्वप्रनाशनः - भाविनोऽनर्थस्य सूचकान् दुःस्वप्नान् नाशयति ध्यातः स्तुतः कीर्तितः पूजितश्चेति दुःस्वप्रनाशनः ।

९२७ वीरहा - विविधाः संसारिणां गतिर्मुक्तिप्रदानेन हन्तीति वीरहा ।

९२८ रक्षणः - सत्त्वं गुणमधिष्ठाय जगत्त्रयं रक्षम् रक्षणः नन्द्यादित्वात् कर्तरि ल्युः ।

९२९ सन्तः - सन्मार्गवर्तिनः सन्तः; तद्रूपेण विद्याविनयवृद्धये स एव वर्तत इति सन्तः ।

९३० जीवनः - सर्वाः प्रजाः प्राणरूपेण जीवयन् जीवनः ।

९३१ पर्यवस्थितः - परितः सर्वतो विश्वं व्याप्यावस्थित इति पर्यवस्थितः ।

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥१००॥

९३२ अनन्तरूपः - अनन्तानि रूपाण्यस्य विश्वप्रपञ्चरूपेण स्थितस्येति अनन्तरूपः ।

९३३ अनन्तश्रीः - अनन्ता अपरिमिता श्रीः परा शक्तिरस्येति अनन्तश्रीः ।

९३४ जितमन्युः - मन्युः क्रोधो जितो येन स जितमन्युः ।

९३५ भयापहः - भयं संसारजं पुंसामपघ्नन् भयापहः ।

९३६ चतुरश्रः - न्यायसमवेतः चतुरश्रः, पुंसां कर्मानुरूपं फलं प्रयच्छतीति ।

९३७ गभीरात्मा - आत्मा स्वरूपं चित्तं वा गभीरं परिच्छेत्तुमशक्यमस्येति गभीरात्मा ।

९३८ विदिशः - विविधानि फलानि अधिकारिभ्यो विशेषेण दिशतीति विदिशः ।

९३९ व्यादिशः - विविधामाज्ञां शक्रादीनां कुर्वन् व्यादिशः ।

९४० दिशः - समस्तानां कर्मणां फलानि दिशन् वेदात्मना दिशः ।

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥१०१॥

९४१ अनादि - आदिः कारणमस्य न विद्यत इति अनादिः सर्वकारणत्वात् ।

९४२ भूर्भुवः - भूराधारः, भुवः सर्वभूताश्रयत्वेन प्रसिद्धाया भूम्याः भुवोऽपि भूरिति भूर्भुवः । अथवा, न केवलमसौ भूः, भुवः, लक्ष्मीः शोभा चेति भुवो लक्ष्मीः । अथवा, भूः भूर्लोकः; भुवः भुवर्लोकः ।

९४३ लक्ष्मीः - लक्ष्मीः आत्मविद्या, 'आत्मविद्या च देवि त्वम्' इति श्रीस्तुतौ । भूम्यन्तरिक्षयोः शोभेति वा भूर्भुवो लक्ष्मीः ।

९४४ सुवीरः - शोभना विविधा ईरा गतयो यस्य स सुवीरः शोभनं विविधम् ईर्ते इति वा सुवीरः ।

९४५ रुचिराङ्गदः - रुचिरे कल्याणे अङ्गदे अस्येति रुचिराङ्गदः ।

९४६ जननः - जन्तून् जनयन् जननः; ल्युड्विधौ बहुलग्रहणात् कर्तरि ल्युट्प्रत्ययः प्रयोगवचनादिवत् ।

९४७ जनजन्मादिः - जनस्य जनिमतो जन्म उद्भवः तस्यादिर्मूलकारणमिति जन- जन्मादिः ।

९४८ भीमः - भयहेतुत्वाद् भीमः ।

९४९ भीमपराक्रमः - असुरादीनां भयहेतुः पराक्रमोऽस्यावतारेष्विति भीमपराक्रमः ।

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥१०२॥

९५० आधारनिलयः - पृथिव्यादीनां पञ्चभूतानामाधाराणामाधारत्वात् आधारनिलयः ।

९५१ अधाता [धाता] - स्वात्मना धृतस्यास्यान्यो धाता । नास्तीति अधाता; 'नघृतश्च' (पा० सू० ५।४।१५३) इति समासान्तविधिरनित्यः' (परिभाषेन्दुशेखरे ८६) इति कप्प्रत्ययाभावः । संहारसमये सर्वाः प्रजा धयति पिबतीति वा धाता; धेट् पाने इति धातुः ।

९५२ पुष्पहासः - मुकुलात्मना स्थितानां पुष्पाणां हासवत् प्रपञ्चरूपेण विकासोऽस्येति पुष्पहासः ।

९५३ प्रजागरः - नित्यप्रबुद्धस्वरूपत्वात् प्रकर्षेण जागर्तीति प्रजागरः ।

९५४ ऊर्ध्वगः - सर्वेषामुपरि तिष्ठन् ऊर्ध्वगः ।

९५५ सत्पथाचारः - सतां कर्माणि सत्पथास्तानाचरत्येष इति सत्पथाचारः ।

७५६ प्राणदः - मृतान् परिक्षित्प्रभृतीन् जीवयन् प्राणदः ।

९५७ प्रणवः - प्रणवो नाम परमात्मनो वाचक ओङ्कारः; तदभेदोपचारेणायं प्रणवः ।

९५८ पणः - पणतिर्व्यवहारार्थः; तं कुर्वन् पणः ।

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥१०३॥

९५९ प्रमाणम् - प्रमितिः संवित् स्वयंप्रभा प्रमाणम् ।

९६० प्राणनिलयः - प्राणा इन्द्रियाणि यत्र जीवे निलीयन्ते तत्परतन्त्रत्वात्, देहस्य धारकाः प्राणापानादयो वा तस्मिन्निलीयन्ते, प्राणितीति प्राणो जीवः परे पुंसि निलीयत इति वा प्राणान् जीवांश्च संहरन्निति वा प्राणनिलयः ।

९६१ प्राणभृत् - पोषयन्नन्नरूपेण प्राणान् प्राणभृत् ।

९६२ प्राणजीवनः - प्राणिनो जीवयन् प्राणाख्यैः पवनैः प्राणजीवनः ।

९६३ तत्त्वम् - तत्त्वं तथ्यममृतं सत्यं परमार्थतः सतत्त्वमित्येते एकार्थवाचिनः पर्मार्थसतो ब्रह्मणो वाचकाः शब्दाः ।

९६४ तत्त्ववित् - तत्त्वं स्वरूपं यथावद् वेत्तीति तत्त्ववित् ।

९६५ एकात्मा - एकश्चासावात्मा चेति एकात्मा ।

९६६ जन्ममृत्युजरातिगः - जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति इति षड्भावविकारानतीत्य गच्छतीति जन्ममृत्युजरातिगः ।

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥१०४॥

९६७ भूर्भुवःस्वस्तरुः - भूर्भुवः स्वः समाख्यानि त्रीणि व्याहृतिरूपाणि शुक्राणि त्रयीसाराणि बहुवृचा आहुः; तैर्होमादिना जगत्त्रयं तरति, प्लवते वेति भूर्भुवः स्वस्तरुः । अथवा भूर्भुवःस्वःसमाख्यलोकत्रयसंसारवृक्षो भूर्भुवः स्वस्तरुः, भूर्भुवः स्वराख्यं लोकत्रयं वृक्षवद् व्याप्य तिष्ठतीति वा भूर्भुवः स्वस्तरुः ।

९६८ तारः - संसारसागरं तारयन् तारः, प्रणवो वा ।

९६९ सविता - सर्वस्य लोकस्य जनक इति सविता ।

९७० प्रपितामहः - पितामहस्य ब्रह्मणोऽपि पितेति प्रपितामहः ।

९७१ यज्ञः - यज्ञात्मना यज्ञः ।

९७२ यज्ञपतिः - यज्ञानां पाता, स्वामी वा यज्ञपतिः ।

९७३ यज्वा - यजमानात्मना तिष्ठन् यज्वा ।

९७४ यज्ञाङ्गः - यज्ञा अङ्गान्यस्येति वराहमूर्तिः यज्ञाङ्गः ।

९७५ यज्ञवाहनः - फलहेतुभूतान् यज्ञान् वाहयतीति यज्ञवाहनः ।

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥१०५॥

९७६ यज्ञभृत् - यज्ञं बिभर्ति पातीति वा यज्ञभृत् ।

९७७ यज्ञकृत् - जगदादौ तदन्ते च यज्ञं करोति, कृन्ततीति वा यज्ञकृत् ।

९७८ यज्ञी - यज्ञानां तत्समाराधनात्मनां शेषीति यज्ञी ।

९७९ यज्ञभुक् - यज्ञं भुङ्क्ते, भुनक्तीति वा यज्ञभुक् ।

९८० यज्ञसाधनः - यज्ञाः साधनं तत्प्राप्ताविति यज्ञसाधनः ।

९८१ यज्ञान्तकृत् - यज्ञस्यान्तं फलप्राप्तिं कुर्वन् यज्ञान्तकृत्। वैष्णवऋक्छंसनेन पूर्णाहुत्या पूर्णं कृत्वा यज्ञसमाप्तिं करोतीति वा यज्ञान्तकृत्।

९८२ यज्ञगुह्यम् - यज्ञानां गुह्यं ज्ञानयज्ञः, फलाभि- सन्धिरहितो वा यज्ञः; तदभेदोपचाराद् ब्रह्म यज्ञगुह्यम् ।

९८३ अन्नम् - अद्यते भूतैः अत्ति च भूतानिति अन्नम् ।

९८४ अन्नादः - अन्नमत्तीति अन्नादः ।

सर्वं जगदन्नादिरूपेण भोक्तृ- भोग्यात्मकमेवेति दर्शयितु- मेवकारः; ‘च’ शब्दः सर्वनाम्नामेकस्मिन् परस्मिन् पुंसि समुच्चित्य वृत्तिं दर्शयितुम्

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥१०६॥

९८५ आत्मयोनिः - आत्मैव योनिरुपादानकारणं आत्मा ही योनि अर्थात् उपादाननान्यदिति आत्मयोनिः ।

९८६ स्वयंजातः - निमित्तकारणमपि स एवेति दर्शयितुं स्वयंजातः ।

९८७ वैखानः - विशेषेण खननात् वैखानः । धरणीं विशेषेण खनित्वा पातालवासिनं हिरण्याक्षं वाराहं रूपमास्थाय जघानेति पुराणे प्रसिद्धम् ।

९८८ सामगायनः - सामानि गायतीति सामगायनः ।

९८९ देवकीनन्दनः - देवक्याः सुतो देवकीनन्दनः ।

९९० स्रष्टा - स्रष्टा सर्वलोकस्य ।

९९९ क्षितीशः - क्षितेर्भूमेरीशः क्षितीशः दशरथात्मजः ।

९९२ पापनाशनः - कीर्तितः पूजितो ध्यातः स्मृतः पापराशिं नाशयन् पापनाशनः ।

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥१०७॥

९९३ शङ्खभृत् - पाञ्चजन्याख्यं भूताद्यहङ्कारात्मकं शङ्खं बिभ्रत् शङ्खभृत् ।

९९४ नन्दकी - विद्यामयो नन्दकाख्योऽसिरस्येति नन्दकी ।

९९५ चक्री - मनस्तत्त्वात्मकं सुदर्शनाख्यं चक्रमस्यास्तीति, संसारचक्रमस्याज्ञया परिवर्तत इति वा चक्री ।

९९६ शार्ङ्गधन्वा - इन्द्रियाद्यहङ्कारात्मकं शार्ङ्गं नाम धनुरस्यास्तीति शार्ङ्गधन्वा 'धनुषश्च' (पा० सू० ५।४।१३२) इति अनङ् समासान्तः ।

९९७ गदाधरः - बुद्धितत्त्वात्मिकां कौमोदकीं नाम गदां वहन् गदाधरः ।

९९८ रथाङ्गपाणिः - रथाङ्गं चक्रमस्य पाणौ स्थितमिति रथाङ्गपाणिः ।

९९९ अक्षोभ्यः - अत एव अशक्यक्षोभण इति अक्षोभ्यः ।

१००० सर्वप्रहरणायुधः - केवलम् एतावन्त्यायुधान्यस्येति भगवान्‌ के केवल इतने ही आयुध न नियम्यते, अपि तु सर्वाण्येव प्रहरणान्यायुधान्यस्येति सर्वप्रहरणायुधः, आयुधत्वेनाप्रसिद्धान्यपि करजादीन्यस्यायुधानि भवन्तीति । अन्ते सर्वप्रहरणायुध इति वचनं सत्य-सङ्कल्पत्वेन सर्वेश्वरत्वं दर्शयितुम् । द्विर्वचनं समाप्तिं द्योतयति । ॐकारश्च मङ्गलार्थ, 'ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा, कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ' ।

सर्वप्रहरणायुध ॐ नम इति ॥

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥