सामग्रीं त्यजन्तु

श्रीविष्णुसहस्रनामस्तोत्रम् — ध्यानम्

अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्रीवेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति नेत्रम् । त्रिसामा सामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुः सुदर्शनः काल इति दिग्बन्धः । श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णु प्रीत्यर्थे श्रीसहस्रनाम जपे विनियोगः ।

ध्यानम्

क्षीरोदन्वत्प्रदेशे शुचि-मणि-विलसत्सैकते मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिक-मणि-निभै-र्मौक्तिकैर्-मण्डिताङ्गः ।
शुभैरभ्रै रदभ्रैरुपरि विरचितै-र्मुक्तपीयूष-वर्षैः
आनन्दी नः पुनीयादरि-नलिन-गदा-शङ्खपाणिर्-मुकुन्दः ॥

भूः पादौ यस्य नाभि-र्वियदसुरनिलश्चन्द्र-सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुर-नर-खग-गोभोगि-गन्धर्व-दैत्यैः
चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥

ॐ नमो भगवते वासुदेवाय ।

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥

नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥

छायायां पारिजातस्य हेमसिंहासनोपरि ।
आसीनमम्बुदश्याममायताक्षमलंकृतम् ॥

चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम् ।
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये ॥

॥ हरिः ॐ ॥